पृष्ठम्:रामविजयमहाकाव्यम्.pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रामविजये।

सीते श्रेयानृष्यमूकोऽयमद्रि- यस्मिन्भूषामाक्षिपः कोशमध्ये। तां प्रेक्ष्यैव प्रस्फुटत्स्वान्तलक्ष्ये कामो बाणान् प्राहिणोन्मे मनोज्ञे ॥१२॥ एषा पम्पा सुश्रु शम्पाप्रकाशे यत्र प्रत्तं बादरं में शबर्या। गोदा चैषा मोददा मोदमाना यस्यामासीः पञ्चवट्याः समीपे ॥१२॥ सीते तस्यैवाश्रमोऽयं ह्यखेदो ऽभूवं यस्मात् प्राप्यः चापं सतूणम् । येनापीतः सिन्धुनाथः समस्तो यं नत्वाहं पूर्णचन्द्राननाभे ॥ १२२ ॥ वैदेह्यत्रेराश्रमो यत्र तुष्ट्या तत्पल्या तेऽदायि वस्त्राङ्गरागम् । बाले दूराद्भासते चित्रकूटो यत्र भ्राता मध्यमोऽगान्मदर्थम् ॥ १२३ ॥ वाल्मीकेस्त्वं पश्य रम्योट वै मित्रं योऽयं काव्यकर्ता पितुस्ते । पश्येदानी तीर्थराज प्रयागं न्यग्रोधोऽस्मिन् श्याम आस्ते सुने।।।१२।।