पृष्ठम्:रामविजयमहाकाव्यम्.pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नवमः सर्गः।

मत्स्यो भूत्वा कश्यपस्याञ्जलौ वं पातं कृत्वा खान्महत्वं गतोऽसि । शङ्खं हत्वा सागरे शीर्णवेदा- नादायादा: मह्यमादौ युगान्ते ॥ १.५ ॥ कूर्मेणादौ मन्दरं पृष्ठदेशे धृत्वा देवैदानवैर्मथ्यमानात् । क्षीराब्धेरुद्भूतपीयूषपानं सर्वे देवाः कारिता नेतरे च ॥ १०६ ॥ आदौ क्रोडीभूय भूमन्नधस्तात् धृत्वा भूमिं दंष्ट्रया दैत्यराजम् । हत्वा पद्मीवोज्जहाराम्बुजिन्याः पत्रं श्रीमन् क्रीडितं ते न यत्नः ॥ १०७ ॥ रूपं बिभ्रन्नारसिंह नृसिंह वक्षःक्षेत्र लागला खात्रैः । भित्त्वा देवारातिराजस्य काष्ठात् प्रहादं तं त्रायते स्म प्रभूय ॥ १०८॥ भूत्वा मायावामनोऽवामनोऽपि याञ्च्याव्याजाद्भूमिपादत्रयस्य राज्यं हत्वाऽदान्मघोने समस्तं संस्थाप्याधो राम वैरोचनिं तम् ॥१०९।।