पृष्ठम्:रामचरितम् - सन्ध्याकरनन्दी.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

SANDHYAKARA NANDI द्वयस्थापि न भर्ना | सर्वेषां वैरिभृभुजां तरो बलं भिन्दन् । दानाशके करे अर्पितानि कुश[ति]लानि येन अवला असमर्था अरयो यस्येत्युभयत्रापि ॥ १४ ॥ 24 अभिदुरकरोक्षतबलो प्यमरुत्वानप्रभूतमन्युरपि । योभूदगोत्रभिदपाकशास (नाश) नोपि च सुनाशौरः ॥ १५ ॥ अभिदुर इत्यादि । व्यतिरेकमु (सु) खेन विरोध: । अभिकरो न वज्रहस्तः । न चतो हतो बल- नामा दैत्यो चेन । न मरुत्वान् । न प्रभूतमन्युः प्रचुरयज्ञः । न गोत्रभित् न पाकशासन इति इन्द्ररूप- रहितोऽपि सुनाशौर इन्द्रः । अविरोधे यथा । अभिदुरा(रो) अजातगुरम्यागे शौर्ये च करा यस्य | अक्षतं बलं सामर्थ्य सैन्यं । वाह्यमदेन हि महान्तोपि विक्षिप्यन्ते, श्रयंन्तु न मरुत्वान् न वातु(तू)लो न विचित इत्यर्थः । त्रप्रभूतः संजातो मन्युः शोको यम्य । न गोत्रभित् कुलाघातौ । अपाकं अगतपाकं शामनं यस्य यथाधर्मतो दण्डधारी । सुनाशौर: शोभनाग्रेर : १ ॥ १५ ॥ जिष्णुशुचिञौवितेशकलानिधिकमलेशपवनधन देनम् । यं वेधा व्यधित समाहारं किल लोकपालानाम् ॥ १६ ॥ जिष्णुरित्यादि । जिष्णुरिन्द्रः शुचिरग्निः जीवि[ते]शो यमः कलानिधिः चन्द्रः कमलस्य जलस्य शो बरुणः पवनो धनदः प्रसिद्ध इनः सूर्खः इत्यमष्टामां लोकपालानां समाहारमेकरूपं । वेधा व्यधित घटितवान् इति निगमार्थ: । पदार्थस्तु क्रमेण जयशोलो विशुद्ध: प्र[1] शिनाथ: कलानां चतुष्टये निधिः कमलाया लक्ष्म्या ईशः लोकान् पुनीते धनं ददाति प्रभुः । इति कविरपि समाहारद्वन्दपदमेव निर्दिष्टवानिव ॥ १६ ॥ वदनगतभारतौकः कमलासनतां दधत् प्रजानाथः । विधिरिव धाता जगतो यः श्रीपतिनाभिसम्भूतः ॥ १७ ॥ वदन इत्यादि । कमलायाः श्रि (प्र)य त्रास (श) नमाश्रयः । श्रीपतिः पार्थिवो यो नाभिः चत्रियस्तस्मात् सम्भूतः विधिरिवेति श्लेषोपमा । अत्र श्रौपते वसुदेवस्य नामितोऽवयवादुद्भूतः । शेषं सुगमं । उभयचापि समं ॥ १७ ॥ यः शङ्करो गिरौशः सर्व्वज्ञः सर्व्वमङ्गलाधारः | हर इव मारहरोऽधात् दृषचारी राजशेखरताम् ॥ १८ ॥ य इत्यादि । शं मः । गोर्वाक् । मङ्गलं श्रेयः । मारो दैवकृतः प्रतिपक्षकृतञ्च प्रजास्खाघातः । वृषो धर्मः । राजा नृपतिः । हरवेति शेषोपमात्र सर्व्वमङ्गला गौरी) मारः कामः | वृषो वृषभ: । राजा चन्द्र इति ॥ १८॥ १ Fighting in front.