पृष्ठम्:रामचरितम् - सन्ध्याकरनन्दी.pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RAMACARITA. ज्येष्ठस्तेषु विरेजे रामो लङ्केनभर निमग्नायाः । उन्नमयिता धरायाः बलिधामक्षिदिव कादिषु मुखेषु ॥ १२ ॥ ज्येष्ठेत्यादि । तेषु रामादिषु चतुर्षु मध्येषु ज्येष्ठ: अग्रजो रामो विरेजे । लङ्काया दुनो राव (म) एस्ट भरेण निमग्नाचा धराया उन्नमयिता उच्छ्रामयिता || अन्यत्र तेषु त्रिषु मध्ये रामो रामपालो ज्येष्ठ: प्रशस्तमो विरेजे। अलं शक्तौ श्रतएव केन सुखेन भरनिमनाया अतिशयनिमनायाः परेण कवलिताया धराया उन्नमयिता उती । केनः कं कुमित दून: कैवर्त्तनृपः तस्मिन् निमनाया वा । अत्रोपम[I] बलिनोऽसुरस्य धाम प्रभाव चिणोति वलिधामक्षित् (तः) वासुदेवः । म यथा बराहरूपः कादिषु ब्रह्मादिषु मुखेषु प्रधानेषु ब्रह्मविष्णुमहेश्वर महेन्द्रेषु चतुर्षु । अन्यत्र एकं विना चिषु राजते। कस्य पानौयस्य इनः समुद्रस्तस्मिन् भरनिमनाया धराया उन्नमयिता । अपि च वलिधामचित् वलिसद्मचित् शेषमहोचिइत् म यथा कं वातं अत्तुं गौलं येषां तेषु कादिषु पवनाशनेषु नागेषु प्रधानेषु शेषवासुकितच केषु कर्कोटकेषु चतुर्षु त्रिषु राजते । केन शिरमा धराया उनमयिता ॥ १९ ॥ यं बहुशोनागसमजमुच्चैर्वाजिब्रजं प्रजा दधतम् । ज्ञातनयं स्फुरदङ्गं मातानयत्य कोशलाभाच्च ॥ १३ ॥ 23 यमित्यादि । वडशो वहुधा यं राघवं नागमं पापापराधरहितं (तां) अजं अजन्मानं उच्चैः वाजिब्रजं गरुड़गामिनं इति पदद्वये वासुदेवावतीर्णमिति भावः । प्रजा लोकान् दधतं तनयं पुत्रं ज्ञात्वा विज्ञाय पुरुषातिशयत्वमस्य विदुषो माता जननौ कोश (घ)ला नाम एत्य उपसृत्य अङ्गमनयत् (तम्) अङ्गमित्यर्थात् कोड़े, स्फुरत् हर्षोपचौयमानमित्यङ्ग विशेषणं । अतएवाभाच्च शोभितक्त्यपि । यदा यञ्च एत्य प्राप्य कोशला नाम पुरी भात् । अन्यत्र यं रामपालं वडशो वहुसंख्यं नागममजं हस्तिघटां उच्चैर्महान्तं वाजिब्रजं अश्वसेनां प्रजाः पदातिसेनां दधतं ज्ञातनयं विदितनौति (तं) स्फुरदङ्गं उपचितराज्याङ्ग मा लक्ष्मीः एत्य कोशलाभाञ्च भाण्डागारलाभेनापि अतानयत् विस्तारितवतौ ॥ १३ ॥ भर्त्ता नाकस्य तरस्तत् विश्वविरोधिभूभृतां भिन्दन् । दानव्यग्रकरार्पित कुशतिलतोयोयमवलारिः ॥ १४ ॥ भर्त्तव्यादिविरोधालङ्कारः । नाकम्य स्वर्गस्य भर्त्ता । भूभृतां पर्व्वतानां तत् जगविरोधि तरी वेगं पञ्चच्छेदात् भिन्दन् । दानवौनां दानववधूनां अग्रहस्तेऽर्पितानि कुशतिल(तो]यानि येन वैधव्यं तासां कृतम् । एवमिन्द्रस्वरूपोऽपि अव(च) लारिः वलारिर्न भवतीति विरोध: । अविरोधे तु अकं पापे दुःखे च तस्य १ Comm. वलेन सुरस्य । २ Comm. श्रभावात् ।