पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रकीर्णकाण्डम् | ( ५९ ) कवद्भावः । नियुक्ताः । क्षिपेस्तौदादिकस्य ग्रहणम् । वेणुमृदङ्गकांस्यं वंशमुरजकांस्यतालम- वादयन् वादितवन्तः । वर्ण्यन्तस्यैव प्रयोगः । 'जातिरप्राणिनाम् । २।४। ६ ।' इत्येकवद्भावः । न पुनस्तूयाङ्गत्वात् । तत्र हि प्राणिनां तूर्याङ्गाणां द्वन्द्वै- यथा मार्दङ्गिकपाणविकमिति । 'वृतृवदिहनिकमिकषिभ्यः सः । 'इत्यौणादिकः कंसशब्दः । तदर्थाय हितं कंसीयम् । त्रपुणा दृढद्रव्यम् प्रकृतिविकारभावे छः । तस्य विकार इति । 'कंसीयपरशव्ययोर्यञञौ लुक् च । ४ । ३ । १६८ ।' इति छस्य लुक् यञ् च प्रत्ययः । कम्बून् शङ्खान् । तारान् उच्चैस्तरध्वनीन् । अधमन् शब्दितवन्तः । 'पात्राध्मास्थाम्नादाण्यतसि 'शदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छौशीयसीदाः । ७ । ३ । ७८ । इति धमादेशः । तथा कुंकुमचन्दनानि आनयन आनीतवन्तः । सर्वत्र लडि रूपम् ॥ ३४ ॥ अन्त्येष्टिं दर्शयन्नाह - श्रोताऽक्षिनासावदनं सरुक्मं कृत्वाऽजिने प्राविछरसं निधाय । सञ्चित्य पात्राणि यथाविधानमृत्विरजुहाव ज्वाले तंचिताऽग्निम् ॥ ३५॥ श्रोत्रेत्यादि-अजिने कृष्णसारचर्मणि प्राक् पूर्व शिरो मूर्धा यस्येति तं प्राकृ शिरसं शवं निधाय स्थापयित्वा पश्चात् श्रोत्राक्षिनासावदनम् । प्राण्यङ्गत्वादे- कवद्भावः । वृतृवदीत्यादिसूत्रस्यानन्तरं नयतेराचेति प्रकृतेराकारे नासेत्यौणा- दिकं रूपम्। सरुक्मं ससुवर्णं कृत्वा । सञ्चित्य विन्यस्य अङ्गप्रत्यङ्गेषु । पात्राणि स्रुगादीनि । यथाविधानं यादृशं विधानमुक्तं गृह्यशास्त्रे | ऋत्विग्याजकः । ऋतौ यजतीति । 'ऋत्विग्दधृस्रगदिगुष्णिगञ्चुयुजिक्रुच्चां च । ३ ॥३॥ ५९ ।' इति निपातितः । ज्वलितं चिताग्निम् | ज्वलनं चितं तदर्थमाग्न जुहावं जुहोति स्म ॥ ३५ ॥ कृतेषु पिण्डोदकसञ्चयेषु हित्वाऽभिषेकं प्रकृतं प्रजाभिः । प्रत्यानिनीपुर्विनयन रामं प्रायादरण्यं भरतः सपोरैः ॥३६ ॥ कृतेण्वित्यादि - पिण्डोदकदानास्थिस चयेष्वनुष्ठितेषु प्रजाभि: प्रकृतं प्रस्तु- तमभिषेकमादिकर्मणि क्तः । हित्वा त्यक्त्वा । 'जहातेश्च क्त्वि | ७| ४ | ४३ | इति हिरादेशः । रामं प्रत्यानिनीषुः प्रत्यानेतुमिच्छु: । विनयेन प्रसादनया न भयादरण्यं वनं प्रायात् गतवान् । भरतः सपौर: सह पौरैः । अयोध्याभवर्ज- नर्मयकेन प्रसाद्यमानः कदाचिन्नागमिष्यतीति मया प्रसाद्यमानोऽपि यदि न प्रत्यागच्छेत्तदा लोके तथा मृषाप्रवादो माभूदिति च हेतोः पौरैः सह प्रयाणम् ।। ३६ ॥ ॐ