पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ६० ) भट्टिकाव्ये जयमङ्गलासमेते- [ तृतीयः । शीघ्रायमाणैः ककुभोऽनुवानैर्जनैरपन्यानमुपेत्य सृतैः । शोकादभूपैरपि भश्वकासाञ्चकार नागेन्द्ररथाऽश्वमिश्रैः ॥३७॥ शीघ्रेत्यादि-जनैर्हेतुर्भूतैर्भूश्च कासाञ्चकार शोभते स्म । कर्तुः क्रियाफल- योगेऽपि नात्मनेपदम् । आम्प्रत्ययवदिस्यत्र पूर्वग्रहणानुवृत्तेः । चकासश्च परस्मै- पदित्वादिति विधिनियमौ स्थितौ । शीघ्रायमाणै: अशीयैः शीधैर्भवद्भिर्झटिति गच्छद्भिरित्यर्थः । ‘भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः । ३ । १ । १२ ।' इति क्यङ् । ङित्त्वात्तङ् । ककुभोऽनुवानः दिशो व्याप्नुवद्भिः । अश्नोतेः सौवादि- कस्य आत्मनेपदिनो रूपम् । अपन्थानमुपेत्य सृतैः बहुत्वादमार्गमपि गत्वा - गतैः । ‘ऋक्पूरब्धूःपथामानक्षे ।५ । ४ ७४ ।' इति समासान्तः प्राप्तो 'नञ- स्तत्पुरुषात् । ५ । ४।७१ ।' इति प्रतिषिद्धः सन् 'पथो विभाषा | ५।४।७२।१ इति विकल्पितः । शोकाद्धेतोरभूषैरनलङ्कारैरपि चकासाञ्चकार । भूः भूमिः । भूषेति ‘गुरोश्च हलः । ३ | ३ | १०३ ।। इत्यकारप्रत्ययः । 'चकास दीप्तौ इत्यस्मात् कास्यनेकाज्यहणं चुलुम्पाद्यर्थमित्याम् । नागेन्द्ररथाश्वमिति द्वन्द्वे एकवद्भावः । अल्पाच्तरस्य न पूर्वनिपातः । 'बहुप्वनियमः |' इति वचनात् । तेन सेनाङ्गत्वात् कृतैकवद्भावेन मिश्रैर्युक्तैः । 'पूर्वसदृशसमोनार्थकलहनिपुण मिश्रश्लक्ष्णैः |२|१||३१|' इति तृतीयासमासः ।। ३७ । उच्चिक्यिरे पुष्पफलं वनानि सस्नुः पितॄन्पिप्रियुरापगासु | आरेटुरित्वा पुलिनान्यशङ्कं छायां समाश्रित्य विशश्रमुश्च ॥ ३८ ॥ उच्चीत्यादि — ते जनाः गच्छन्तः पुष्पफलं पुष्पाणि फलानि चेति 'जाति- रप्राणिनाम् |२|४||६|' इत्येकवद्भावः । उच्चिक्यिरे उच्चितवन्तः । नित्वात्त- ङ् कर्तुः क्रियाफलयोगात् । 'विभाषा: |७|३|५८।' इति धातोः कुत्वम् । ‘एरनेकाचः-६।४।८२।' इति यणादेशः । 'उच्चिचियरे इति पाठान्तरं युक्तम् । चनानीति हेतुत्वेन 'अकथितं च ॥ १॥४॥५१॥' कर्म | वनानि विघट्टयन्तः फलानि 'जगृहुरित्यर्थः । ततः सस्नुः स्नातवन्तः । स्नातेर्लिटि 'उस्यपदान्तात् । ६ । १।९६ ।' इति पररूपम् । पितॄन् पिप्रियुः उदकाञ्जलिना तर्पितवन्तः । श्रीणातेर्लिंटि इयङादेशः । आपगासु नदीषु । एतत् कृत्वा पुलिनानि सैक- तानि इत्वा आरेटुः आरटिताः । आरेमुरिति पाठान्तरम् । शोकापनोदनार्थ कियन्तमपि कालमारमन्ति स्म । 'व्याङ्परिभ्यो रमः | १ | ३ | ८३ ।। इति ★ परस्मैपदम् । अशङ्कं विस्रब्धम् । छायां समाश्रित्य विशश्रमुः विश्रान्ताः ||३८ || सम्प्राप्य तीरं तमसाssपगाया गङ्गाऽम्बुसम्पर्कविशुद्धिभाजः । विगाहितुं यामुनमम्बु पुण्यं ययुर्निरुद्धश्रमवृत्तयस्ते ॥ ३९ ॥