पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(५८) भट्टिकाव्ये जयमङ्गलासमेते- [ तृतीय:- नैतन्मतं मत्कमिति ब्रुवाणः सहस्रशोऽसौ शपथानशप्यत् । उद्वाश्यमानः पितरं सरामं उठयन्सशोको भुवि रोरुदावान् ॥ ३२॥ नैतदित्यादि——यदेतत्केकय्यनुष्ठितं मतमभिप्रायः । न मत्कृतं तत् । नाहम- स्य ग्रामणीर्न प्रभुरिति । अस्मच्छब्दात् 'स एषां ग्रामणीः |५||२७८|' इति कन् । ‘प्रत्ययोत्तरपदयोश्च |७|२|९८|' इति मपर्यन्तस्य मादेशः । नास्मन्मता- दनुष्ठितमनयेत्यर्थः । इत्येवं ब्रुवाणः सहस्रशो बहुवारानसा भरतः शपथान सम्प्रत्ययकारणवचनानि अशष्यत् कृतवान् । अनेकार्थत्वाद्धातून शपेर्दैवादि- कस्य उभयपदिनो लङि रूपम् । उद्वाश्यमानः आह्वयन् । 'वातृ शब्दे ।' दैवा- दिकः । अनुदात्तेत् । पितरं सरामं हा तात ! हा रामेति । लुठथन् भुवि लुउन् । ‘ळुठ विलोडने ।’ दैवादिकः परस्मैपदी । सशोक इति शाठयपरिहारार्थम् । रोरुदावान् अत्यर्थं रोदनं कुर्वन् | यङन्तात् 'अ प्रत्ययात् । ३।३।१०२।' इत्यकार: ‘अतो लोपः । ६।४|४८।' ' यस्य हलः ।६।४।४९।' स्त्रियामतष्टाप् | सा विद्यते यस्येति मर्तुप् ॥३२॥ तं सुस्थयन्तः सचिवा नरेन्द्रं दिधक्षयन्तः समुहुरारात् । अन्त्याऽऽहुति हावायितुं सविप्राश्चिचीपयन्तोऽध्वरपात्रजातम् ॥३३॥ - | तमित्यादि – सचिवा अमात्याः । कार्येषु सचन्ते समवयन्तीति सचेरिच- न्नित्यौणादिक इवन् । तं भरतं सुस्थयन्तः सुस्थं कुर्वाणाः । तत्करोतीति णिच् । नरेन्द्रं दशरथम्। समुदूहुः उद्वाहितवन्तः । शिबिकायामारोप्य । बहिर न्तर्भावितण्यर्थोऽत्र द्रष्टव्यः । यजादित्वात्सम्प्रसारणम् । आरात् नातिदूरे । दिघक्षयन्तः । दुग्धुमिच्छन्तं भरतं प्रयोजितवन्तः । दहे: साने 'दादर्घातोर्घः ३८।२।३२।’ भष्भावचर्व्वे । प्रयोजकव्यापारे णिच् । अन्ते विनाशे भवा या आहुतिः । 'दिगादिभ्यो यत् | ४|३|५४|| इति यत् । तामन्त्याहुतिं हावयितु- मनौ प्रक्षेपयितुं सविप्राः ब्राह्मणैः सहिताः सचिवाश्चिचीषयन्तः । चेतुं निधातुमिच्छन्तः प्रयोजितवन्तः । किं तत् अध्वरपात्रजातं यज्ञोपयोगिपात्राणां स्रुवादीनां समूहम् ॥ ३३ ॥ - उदक्षिपन्पट्टदुकूलकेतूनवादयन्वेणुमृदङ्गकांस्यम् । कम्बूंश्च तारानधमन्समन्तात् तथाऽऽनयन् कुङ्कुमचन्दनानि ॥ ३४॥ उदेत्यादि-पट्टदुकूलविरचितान् केतून् ध्वजानुदक्षिपन् उच्छ्रितवन्तः ये १ अत्र दीपकमलङ्कारः ।