पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रकीर्णकाण्डम् । ((५७) आबद्ध भीमञ्जुकुटीविभङ्गः शेश्वीयमानाऽरुणरौद्रनेत्रः । उच्चैरुपालब्ध स केकयीं च शोके मुहुश्चाविरतं न्यमाङ्क्षीत् ॥ ३० ॥ आवजेत्यादि-स भरत उच्चै मेहता ध्वनिना केकयों च मुहुर्मुहुर्भूयो भूय उपालब्ध उपालब्धवान् । उपाङ्पूर्वो लभिरुपालम्भे वर्तते । तस्मादात्मनेपदिनो 'झलो झलि | ८|२||२६|' इति सिलोपे धत्वजश्त्वे रूपम् । शोके च मन्यौ अविरतमजस्रं न्यमाङ्क्षीत् निमग्नः । मस्जेर्लुङि 'मस्जिनशोर्झलि |७||१|६०॥' इति नुम् । तत्रापि मस्जेरन्त्यादि नियमात् नुम् । संयोगादिलोप: । हलन्तल- क्षणा वृद्धिः | हल्द्ब्रहणं समुदायप्रतिप्रत्त्यर्थमित्युक्तम् । कीदृशः । आबद्धभीम- भ्रुकुटीविभङ्गः । भ्रमेश्च हुरित्यौणादिको डुः । 'कुडे स्त्रीलिङ्गे भावे कृशादिभ्यः इतीः। तदन्तात् कृदिकारादिति ङीष् । भ्रुवोः कुटी कौटिल्यं भ्रुकुटी । 'इको ह्रस्वोऽङयो गालवस्य |६|३|६१ | इतिहस्त्रः । तस्या विभङ्गो विरचनम् । आबद्धः कृतः प्रयत्नेनायासवृत्तेन भीमो भयानको झुकुटीविभङ्गो येन यस्य वेति । शेश्वीयमाने अत्यर्थ शूयमाने अरुणे लोहिते रौद्रे भयानके नेत्रे यस्य सः । श्वयतेर्याङि 'विभाषा श्वेः |६|१|३०|' इति वा सम्प्रसारणम् ॥३०॥ तमुपालम्भमाह- नृपाऽऽत्मजौ चिक्लिशतुः ससीतौ ममार राजा विधवा भवत्यः | शोच्या वयं भूरनृपा लघुत्वं केकय्युपज्ञं बत बनर्थम् ॥ ३१ ॥ नृपेत्यादि-नृपात्मजौ रामलक्ष्मणौ ससीतौ सीतया सह चिकिशतुः किष्टौ । ममार मृतो राजी । 'म्रियतेर्लुङ्लिङोश्च |१||३|६१ || इति नियमात्त- ङोऽभावः । विधवाः धवो भर्ता तेन विना भवत्यो जाताः । शोच्या: शोच- नीया वयम् अयशोभाजनत्वात् । 'ऋहलोत् । ३।१११२४|शङ्काः' इति पाठा- न्तरम् । शङ्कनया वयम् । एतत्कृतोऽयं प्रयोग इति । भूश्चानृपा । न विद्यते नृपो यस्यामिति । नञोऽस्त्यर्थनामिति बहुव्रीहिः । लघुत्वं राज्यप्रार्थनालक्षणं केकय्युपज्ञम् । केकय्याः प्रथमतो ज्ञातं नान्यस्य कस्यचित्पूर्वज्ञातम् । उपज्ञायत इत्युपज्ञम् ‘आतश्चोपसँगै । ३ | १ | १३६ || इति स्त्रियामङ् । कुल्लक्षणा षष्टी केकय्या उपज्ञेति समासः । ‘उपज्ञोपक्रमं तदाद्याचिख्यासायाम् | २|४|२१|' इति नपुंस कता । बत कष्टम् । बह्वनथै बहुदोषम् । क्लेशमरणाद्यनिष्टानां सम्भवात् ||३१|| भरतकृत एवायं प्रयोग इत्येतत्परिहरन्नाह - १] अश्लीलोऽपि प्रयोगोऽत्रादुष्टः । प्रकृते तथोक्तौ शोकोद्द्वारकत्वात् ।