पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(५६) भट्टिकाव्ये जयमङ्गलासमेते- [ तृतीयः- रूपव्यवहारस्योच्छिन्नंत्वात् । पणन्ते इति वणिज : पणेरिजादेश्च व इत्यौणा- दिकः । पण्यन्त इति पणा: । 'नित्यं पणः परिमाणे |३|३|६६।' इत्यप् । व्यवहर्तव्याः ईयन्ते प्राप्यन्ते वणिग्भिरित्ययाः लाभा: । 'एरच् | ३|३|५६ | इति इण: कर्मणि अच् । पणानामया: पणायाः तान् । पणायामिति पाठान्तरम् । वणिजां स्तुतिं संव्यवहारविषयां नोपलेभे । संव्यवहारकुशलाः साधव इति गुपादिषु स्तुत्यर्थपणिना साहचर्यातूंं पणेरपि तदर्थादेवायप्रत्ययः । 'अ प्रत्ययात् ||३|३|१०२।' इत्यकार: । टाप् । 'वणिजां प्रलापान्' इति तृतीयः पाठः । वणिक्प्रसारकलहानित्यर्थः ॥ २७ ॥ चक्रन्दुरुच्चैर्नृपतिं समेत्य तं मातरोऽभ्यर्णमुपागताऽस्त्राः । पुरोहित।ऽमात्यमुखाश्च योधा विवृद्धमन्युप्रतिपूर्णमन्याः ॥ २८ ॥ चक्रन्दुरित्यादि--तं भरतं गृहगतमभ्यर्ण समीपीभूतं समेत्य ढौकित्वा मातरः कौशल्याद्याः नृपतिमुच्चैरत्यर्थं चक्रन्दुः ऋन्दितवत्यः । हा स्वामिन् ! हा राजन् ! क गतोऽसीति । उपागतं प्राप्तमस्रमश्रुजलं यासां ताः । एवंविधाः । युध्यन्त इति योधाः पचादित्वादच् । ते च तं समेत्य नृपतिं चऋन्दुः । पुरो धीयत इति पुरोहितः । 'निष्ठा ||३|२|१०२|' 'दधातेर्हिः |७|४|४२।' अमाशब्दः सहा | सह राज्ञा कार्येषु भवतीत्यमात्यः । 'अमेहक्कतसित्रेभ्य एव । इति नियमात् । पुरोहितामात्यौ मुखं प्रधानं येषां योधानां ते पुरोहितामात्युमुखाः । अमात्यस्याजाद्यदन्तत्वेऽपि पुरोहितस्याभ्यर्हितत्वात् पूर्वनिपातः । विवृद्ध- मन्युना शोकेन प्रतिपूर्णे मन्ये गलशिरे येषामिति ॥ २८ ॥ दिदृक्षमाणः परितः ससीतं रामं यदा नैक्षत लक्ष्मणं च । रोरुद्यमानः स तदाऽभ्यपृच्छद्यथावदाख्यन्नथ वृत्तमस्मै ॥ २९ ॥ - दिदृक्षमाण इत्यादि —स भरतो यदा ससीतं रामं लक्ष्मणं च परितः सर्वतो दिदृक्षमाणः द्रष्टुमिच्छन् । 'ज्ञाश्रुस्मृदृशां सनः १ । ३१५७।१ इति तङ् । 'हलन्ताच्च । १।२ । १० ।' इति सनः कित्त्वे सृजि- दृशो:- । ६ । १ । ५८।१ इत्यम् न भवति । नैक्षत न दृष्टवान् । तदा रोरुद्यमानः अत्यर्थं रुदन् | याङ रूपम् । अभ्यपृच्छत् पृष्टवान् । ऐक्षताभ्यपृ- च्छदिति भूतसामान्यविवक्षया लङ । अन्यथा कवेः परोक्षत्वात् लिट् स्यात् । अथैतस्मिन् प्रस्तावे यथावत् यादृशं वृत्तं भूतं तथावत् आख्यन् कथि- पुरोहितामात्यमुखा अरमै भरताय । ख्यातेः 'अस्यतिवक्तिख्यातिभ्योऽङ् |३|१|५२।' इति च्लेर | आतो लोपः ॥२९॥ तवन्तः