प्रकीर्णकाण्डम् । सर्गः ] (५५) गमनेच्छा यस्य सः । 'अहि गतौ ।' 'इदितो नुम् धातोः । ७ । १ । ५८ । ” तस्माइंहितुमिच्छतीति सन् । इट् । 'अजादेर्द्वितीयस्य |६|१|२|| इति हिशब्दो द्विरुच्यते । नकारस्य 'नन्द्राः संयोगादयः |६||१|३|' इति प्रतिषेधः। अभ्यासकार्यम् । अनुस्वारपरसवर्णों । 'अ प्रत्ययात् | ३|३|१०२|' इत्यकार- प्रत्ययः।टाप्।आंहिष्ट गतवान्। तस्मादेवात्मनेपदिनो लुङ् । उत्कण्ठमानः स्मरन् । 'मठिकठि शोके ।' इत्यस्मादात्मनेपदिनो रूपम् । अनेकार्थत्वाद्धातूनाम् । गुरूणां पितामहादीनाम् । 'अधीगर्थदयेशां कर्म्मणि | २ | ३ | ५२ ।। इति कर्मणि षष्ठी ॥ २५ ॥ बन्धूनशङ्किट समाकुलत्वा-दासेदुषः स्नेहवशादपायम् । "गोमायुसारङ्गगणाश्च सम्यङ्नाज्यासिषुर्भीममरासिषुश्च ॥ २६ ॥ बन्धूनित्यादि-दुःस्वप्नदर्शनेन अकस्माच्च पितृदूतागमनेन स्नेहवशात् चेतसि समाकुलत्वाद्भरतो बन्धूनशङ्किष्ट शङ्कितवान् उत्प्रेक्षितवानित्यर्थः । शङ्कतेरात्मनेपदनो लुङि रूपम् । कीदृशान् आसेदुष: अपायं विनाशं गतवत: । 'भाषायां सदवसध्रुवः |३|२|१०८।' इति वसुः । 'अत एकहल्- मध्येऽनादेशादेटि |६|४|१|२०|' इत्येत्वाभ्यासलोपौ । अस्मद्वन्धुः कश्चित् व्यसनमापन्नोऽभूदिति । गच्छतस्तस्य गोमायुसारङ्गगणाः शृगालमृगगणाश्च सम्यगनुकूलं नायासिषुः नागताः । यातेर्लुङि 'यमरमनमातां सक्च १७|२|७३ |' इति सगिटौ । शृगाला: प्रदक्षिणं गताः मृगाश्च सव्यमित्यर्थः । भीममुद्वेगकरमरासिषुः रसिताः । रसेः परस्मैपदिनो लुङि । 'अतो हलादे- ल॑घोः।७।२।७।' इति वृद्धौ रूपम् । न रासेः । तस्यात्मनेपदित्वात् ॥ २६ ॥ स प्रोषिवानेत्य पुरं प्रवेक्ष्यन् शुश्राव घोषं न जनौघजन्यम् । आकर्णयामास न वेदनादान्न चोपलेभे वणिजां पणाऽयान् ||२७|| स इत्यादि - स भरतः प्रोषिवान् मातामहकुलात् प्रोषितः सन् । 'भाषायां - |३|२|१०८।' इति वसुः । यजादित्वात् सम्प्रसारणं द्विर्वचनम् । 'वस्वेकाजासाम् | ७|२|६७१' इति इट् । पुरमयोध्यामेत्य आगत्य प्रवेक्ष्यन् गृहमित्यर्थात् पुरं प्रविष्टः।घोषं शब्दं न शुश्राव न श्रुतवान् ।जनौघजन्यं जनसमू- हेन जन्यमुत्पाद्यम् । 'जनेर्यक्' इति जनेर्यक् । तथा वेदध्वनीन्नाकर्णयामास न श्रुतवान् । 'प्रातिपदिकाद्धात्वर्थे' इति णिच् | तदन्तात् लिट्यामि । 'अयामन्ताल्वाय्येत्न्विष्णुषु । ६ । ४ । ५५ ।' इत्ययादेशः । न चोपलेभे नोपलब्धवान् । वणिजां पण्यजीविनाम् | पणायान् पणलाभान् | क्रयविक्रय-
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/९३
दिखावट