( ५२ ) भट्टिकाव्ये जयमङ्गलासमेते- [ तृतीयः- C सूत इत्यादि —सूतोऽपि सुमन्त्रः सहाश्वमश्चैः सह । अनल्पमन्युः प्रवृद्ध शोकः । राघवयोः रामलक्ष्मणयोः । ' सरूपाणामेकशेष एकविभक्तौ । १।२ । ६४।' इत्येकशेषः। ससीतयोः सीतासार्हतयोः । अधीयन् स्मरन् । इक्
- स्मरणे ' इत्यस्य शतरि रूपम् । यणादेशः । * अधीगर्थदयेशां कर्म्माण २॥
३१५२|' इति कर्मणि षष्ठी | श्वसन् | कदुष्णं ईषदुष्णम् | ' कवं चोष्णे | ६ | ३|१०७|' इति चकारात् कदादेशः । गङ्गातटात्प्रतिनिवृत्त्य पुरमयोध्यामाजगाम आगतवान् । गङ्गासलिलैः आत्मानं बाह्यमाभ्यन्तरं च पवित्रीकृत्यः । 'पूडच ।७।२।५१।' इति विकल्पेनेट् । ' पूङ : क्त्वा च ||१||२||२२|| इति कित्त्वप्रति - षेधात् गुणः ॥ १८ ॥ प्रतीय सा पूर्ददृशे जनेन द्यौर्भानुशीतांशुनिराकृतेव ! राजन्यनक्षत्रसमन्विताऽपि शोकाऽन्धकारक्षतसर्वचेष्टा ॥ १९ ॥ प्रतीयेत्यादि-–जनेन रामानुयायिना प्रतीय प्रतिनिवृत्त्य । पूरयोध्या ददृशे दृष्टा । कर्मणि लिट् । प्रतीय इति ईङ् गतावित्यस्य रूपं न पुनरिणः । तस्य हि तुकि प्रतीत्येति स्यात् ।'षत्वतुकोरसिद्धः |६|१|८६।' इत्येकादेशस्यासिद्धत्वात् । 'प्रतीयुषा सा ददृशे' इति पाठान्तरम् । प्रतिनिवृत्तेन सा पूर्ददृशे दृष्टेत्यर्थः । अस्मिन् पाठे तु ' उपेयिवाननाश्वाननूचानश्च | ३|२|१०९ |' इतीणः क्वसौ रूपं द्रष्टव्यमत्रोपसर्गस्यातन्त्रत्वात् । शोकोऽन्धकार इव शोकान्धकारः । तेन क्षता नीतानुष्ठेयकर्माणि चेष्टा परिस्पन्दो यस्यां पुरि सा तथोक्ता । राज्ञोऽपत्यानि राजश्वशुराद्यत् ।४।१।१३७ |' राजन्याः क्षत्रियाः । 'ये चाभावकर्मणोः ॥६॥ ४|१६८|' इति प्रकृतिभावः । राजन्याः नक्षत्राणीव तैः समन्वितापि द्यौः भानुशीतांशुविनाकृतेव द्यौराकाशः यथा नक्षत्रसमन्वितापि रात्रौ भानुचन्द्राभ्यां विनाकृता रहिता अन्धकारच्युतसर्वचेष्टा तद्वत्सापि भानुचन्द्रस्थानीययो राघवयोविरहात् ॥ १९ ॥ 6 विलोक्य रामेण विना सुमन्त्रमच्योष्ट सत्वान्नृपतिश्च्युताऽशः । मधुनि नैषीद्वयलिपन्न गन्धैर्मनोरमे न व्यवसिष्ट वस्त्रे ॥ २० ॥ विलोक्येत्यादि-- रामेण विना सुमन्त्रं विलोक्य दृष्ट्वा नृपतिर्दशरथ: सत्त्वात् स्वभावादच्याष्ट च्युतः । च्यवतेरकर्मकाल्लुङ् । गतोऽपि मद्वचनम - तिक्रम्य आगच्छेद्राम इति अस्य या आशा सा च्युता यस्य स च्युताशः । १ तन्नामानं रथयन्तारम् | वनात् निवृत्तमिति शेषः ।