पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रकीर्णकाण्डम् । (५३) • सत्वात् च्युतश्च मधूनि पातुं नैषीत् नेष्टवान् । 'नेटि । ७ । २ । ४ ।' इति सिचि वृद्धिप्रतिषेधः । गन्धैश्चन्दनादिभिर्नालिपत् । लिपेः 'लिपिसिचिह्नश्च ॥ ३ । १ । ५३ ।' इत्यङ् | मनोरमे चेतोहारिणी वस्त्रे न व्यवसिष्ट न परि- हितवान् । 'वस आच्छादने ।' इत्यस्मात् लुङ् | अनुदात्तेत्त्वात्त ।। २० ।। आसिष्ट नैकत्र शुचा व्यरंसीत् कृताऽकृतेभ्यः क्षितिपालभाग्भ्यः । स चन्दनोशीरमृणाल दिग्धः शोकाग्निनाऽगाइयुनिवासभूयम् ॥ २१॥ आसिष्टेत्यादि — एकत्र स्थाने शुचा शोकेन नासिष्ट नोपविष्ट: । 'आस उपवेशने' इत्यत आत्मनेपदिनो लुङ् | कृतानि चाकृतानि चेति । 'क्तेन नवि- शिष्टेनानञ् । २ । १।६०।' इति समासः । असमापितेभ्य इत्यर्थः । क्षितिपालं भजन्ते यानि दूतप्रेषणादीनि तेभ्यः क्षितिपालभाग्भ्यः । व्यरंसीत् विरतः । विमुखोऽभूदित्यर्थ: । 'जुगुप्साविरामप्रमादार्थानामुपसंख्यानम्' इति अपादा- नसंज्ञा। रमेर्लुङ् ।‘व्याङ्परिभ्यो रमः | १ | ३ | ८३ |' इति तिप् । 'यम- रमनमातां सक्च |७|२|७३ |' इति सगिटौ । स एवम्भूतो राजा चन्दनोशीर - णालैः शोकाग्निप्रतीकारभतदिग्ध उपलिप्तोऽपि उद्वेगाग्निनैव युनिवासभयं देव- त्वमगात् गतवान् । दिहेनिष्टायां 'दार्घातोर्घः | ८|२|३२|' इति घः । 'झषस्तथो- र्धो धः । ८ । २ । ४० ।' . 'झलां जश झशि । ८ । ४ । ५३ ।' इति जशत्वम् । दिवि निवासो येषां ते युनिवासा: देवाः तेषां भाव इति ‘भुवो भावे ३ । १ । १०७ ।' इति क्यप् ॥ २१ ॥ विचुक्रुशुर्भूमिपतेर्महिष्यः केशाल्लुलुञ्चः स्ववपूंषि जघ्नुः । विभूषणान्युन्मुमुचुः क्षमायां पेतुर्बभञ्जुर्वलयानि चैव ॥ २२ ॥ विचुक्रुशुरित्यादि–भूभिपते राज्ञो महिष्यः पत्न्यैः । ‘अविमह्योष्टिषचू’ इत्यौणादिकष्टिषच् । विचुक्रुशुः रुदितवत्य इत्यर्थ: । हा स्वामिन्निति । तथा केशान् लुलुञ्चुः उत्पाटितवत्यः । स्ववपूंषि स्वशरीराणि जघ्नुस्ताडितवत्यः विभूषणानि हारादीनि उन्मुमुचुर्मुक्तवत्यः । क्षमायां भुवि पेतुः । वलयानि -अवैधव्यचिह्नानि बभञ्जुः चूर्णितवत्यः । एते लिइन्ताः । पतेरे वाभ्यासाँप | २२ ॥ ताः सान्त्वयन्ती भरतप्रतीक्षा तं बन्धुता न्यक्षिपदाशु तैले । दूतांश्च राजाऽऽत्मजमानिनषूिन् प्रास्थापयन्मन्त्रिमतेन यूनः ॥ २३ ॥ १ अत्र राज्ञो दशरथस्य स्वर्गं प्रति प्रयाणमुकम् । २ अत्र बहुवचनेन लोकानुग- तिकन्यायेन केकय्या अपि तथा प्रवृत्तौ ग्रहणम् । ३ अत्र स्वभावोक्तिस्तुल्ययोगिता समुच्चयश्च ।