पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रकीर्णकाण्डम् | (५१) 6 निवर्तय रथामति सूतं च सुमन्त्रमाह स्म । 'लट् स्मे |३|२|११८|' इति लट् । ब्रुवः पञ्चानामादित आहो ब्रुवः | ३|४|८४|' इत्याहादेश: तपो ण ॥ १५ ॥ ज्ञात्वेङ्गितैर्गत्वरतां जनानामेकां शयित्वा रजनीं सपौरः । रक्षन्वनेवासकृताद्भयात्तान् प्रातश्छलेनाऽपजगाम रामः ॥ १६ ॥ ज्ञात्वेत्यादि--निवर्तध्वनित्युक्ते ये तत्रानिवृत्ताः तेषां जनानां रामो गत्व- रतां गमनशीलतां ज्ञात्वा | ' गत्वरञ्च | ३|२|१६४|' इति निपातितः । तैरि- ङ्गितैरभिप्रायसूचकैश्चेष्टितैः । इङ्गतैर्भावे निष्ठा | वनेवास इति सप्तमीति योग- विभागात् समासः । शयवासवासिषु - ६ |३|१८|| इति विभाषासप्तम्या अलुक् । तेन कृतात्सिंहादिभयात् रक्षन् पालयन् तान् पौरान सपौरः पौरैः सह एकां नतु ततोऽधिकां रजनी शयित्वा । एकरात्रिपर्यन्तमेव तैः सममेकत्र न्यूप्येत्यर्थः । ‘कालाध्वनोरत्यन्तसंयोगे २|३|५|| इति द्वितीया । शयित्वेति 'नक्त्वा सेट् ||१||२|१८|' इति । कित्त्वप्रतिषेधात् गुणो भवति । प्रातः प्रातः- काले । छलेन सन्ध्यावन्दनादिव्याजेन अपजगाम गतवान् ।। १६ ।। G अस्त्राक्षुरस्त्रं करुणं रुवन्तो मुहुर्मुहुर्न्य वसिषुः कवोष्णम् । हा राम हा कष्टमिति ब्रुवन्तः पराङ्मुखैस्ते न्यवृतन्मनोभिः॥ १७॥ अस्त्राक्षुरित्यादि --- ते पौरा राममपश्यन्तः । करुणं रुवन्तो विलपन्तः । रु शब्दे ।' इत्यस्य शतरि रूपम् । अत्रम् अश्रु । अस्राक्षुः मुक्तवन्तः । सृजे- स्तौदादिकस्य परस्मैपदिनः सिचि ‘सृजिदृशौर्झल्यमति |६|१|६|' इत्यम् । हलन्तलक्षणा वृद्धिः । ' चोः कुः |८|२||३०|' ' खार च |८|४|५५॥' इति चर्त्वम् । मुहुर्मुहुः भूयोभूयः कवोष्णमीपदुष्णमन्तःसन्तापात् । 'कवं चोष्णे ६।३।१०७।' इति कोः कवादेशः । न्यश्वसिषुः । श्वसेर्लुङ् । '। हृयन्तक्षण- अवसजागृणिश्व्येदिताम् |७|२|५|' इति श्वसेर्वृद्धिप्रतिषेधः । 'अतो हलादेर्लेघोः |७|२|७|' इति विकल्पस्य प्राप्तत्वात् । हा राम हा कष्टं कृच्छ्रमिति ब्रुवन्तः । पराङ्मुखैः येन गतो रामस्तेन गतैर्मनोभिरित्थंभूतैः । न्यवृतन् निवृत्तवन्तः । 'युद्धयो लुङि |१|३|९१।' | इति परस्मैपदविकल्पात् । श्रुतादित्वादङ् ॥ १७ ॥ 6 सूतोऽपि गङ्गासलिलैः पवित्वा सहाऽश्वमात्मानमनल्पमन्युः । ससीतयो राघवयोरधीयन् श्वसन्कदुष्णं पुरमाविवेश ॥ १८ ॥ १ 'रक्तरूपमश्रु' इति तु ध्वन्यते । अश्रुशोणितोभयवाचित्वात् । 'अस्र: कोणे कचे पुंसि क्लबिमश्रुणि शोणिते ।' इति मेदिनी ।