पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(५० ) भट्टिकाव्ये जयमङ्गलासमेते- [ तृतीयः- इति णमुल् । ‘ अमैवाव्ययेन |२|२|२०|' इति समासः । ‘ यथाविध्यनुप्रयो- ग–| ३ | ४|४|' तस्य पितुः सम्बन्धिनो महोपकारस्य किमस्ति मोक्षः प्रत्युप कारो नैवेति भावः । केनेत्याह—तुच्छेन असारेण वनस्य यातेन । याते- भीवे ल्युट् । वनस्येति शेषसामान्ये षष्टी | कल्लक्षणायास्तु षष्ट्या गत्यर्थ कर्मणि चतुर्थ्या बाध्यमानत्वात् ॥ १३ ॥ → विद्युत्मणाशं स वरं प्रनष्टो यद्वोर्ध्वशोषं तृणवद्विशुष्कः । अर्थे दुरापे किमुत प्रवासे न शासनेऽवास्थित यो गुरूणाम् ॥ १४ ॥ विशुदित्यादि -- अर्थ कार्यविशेषे दुरापेऽपि कृच्छ्रप्राप्येऽपि । 'ईपद्दुःसुषु- ३।३।१२६।' इति खल् । गुरूणां यच्छासनमादेशः तस्मिन् यो नावास्थित नाव- स्थितवान् । अवपूर्वात्तिष्ठतेर्लुङ् । 'समवप्रविभ्यः स्थः | १||३|२२|| इति तङ् ‘स्थाघ्वोरिच | १|२|१७|' इति कित्त्वमित्त्वं च । 'हस्वादान् ||२|२७|' इति सिचो लोपः । स वरं विद्युत्प्रणाशं प्रनष्टः । विधुदिवोत्पत्त्यनन्तरमेव विनाशं गतः । 'उपमाने कर्मणि च |३|४|४५|| इति चकारात् 'कर्जीवपुरुषयोः -- ३ | ४|४३ |' इत्यतः कर्तृग्रहणानुवृत्तौ कर्तृवाचिनि विद्युच्छन्द उपपदे गमुल । ‘उपसर्गादरामासेऽपि गोपदेशस्यां८|४|१४' इति णत्वम् । यद्वेत्यथवा । स ऊर्ध्व- शोषं तृणवद्विशुष्कः । 'ऊर्ध्वे शुषिपूरोः |३|४|४४ | इति णमुल । उभयत्रामैव- त्यादिना समासः । ‘यथाविध्यनुप्रयोग - ३ | ४ । ४ ।' किमु प्रवासे किम्पुनः प्रवासविषये यच्छासनं तत्र तावदन वस्थितस्य सुतरामेव पूर्वोक्तं प्रयुज्यते ॥१४॥ पौरा निवर्त्तध्वमिति न्यगादीत् तातस्य शोकाऽपनुदा भवेत । मा दर्शताऽन्यं भरतं च मत्तो निवर्तयेत्याह रथं स्म सूतम् ॥ १५॥ पौरा इत्यादि —हे पौरा: ! यथागतं निवर्तध्वम् | विधौ लोट् । इति तान् न्यगादीत् उक्तवान् रामः । गदेः 'अतो हलादेर्लंघोः ।७।२।७|’इति वृद्धिः । ‘इट ईटि |८२।२८।' इति सिचो लोपः । तातम्य पितुः । शोकापनुदाः शोकस्या- पहर्तारो भवेत | तुन्दशोकयोरित्यादिना कः । भवतेर्विधौ प्रार्थनायां वा लिङ् । मध्यमपुरुषबहुवचनम् । भरतं च मत्तो मत्तः सकाशात् । 'अरमदः पञ्चम्यास्तसि |५|३|७|' ' प्रत्ययोत्तरपदयोश्च ।७।२।९८।' इति मदादेशः । अन्यं भरतं मा दर्शत मा द्रष्टारः स्थ | अपि तु योऽहं स एव भरत इति भावः । स च प्रतिष्ठितः राज्यं पालयिष्यतीत्येव न्यगादीत् । दृशेर्माङि लुङ् । 'इरितो वा | ३|१||५७|' इत्यङ् | ऋदृशोऽङि गुणः |७|४|१६|' 6 १ मत इति शेषः ।