सामग्री पर जाएँ

पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रकीर्णकाण्डम् । ( ४९ ) गतो वनं श्वो भवितेति रामः शोकेन देहे जनताऽतिमात्रम् | धीरास्तु तत्र च्युतमन्यवोऽन्ये दधुः कुमाराऽनुगमे मनांसि ॥ ११ ॥ गत इत्यादि --श्व आगामिनि दिवसे वनं गतो रामो भवितेति तास् । जनता जनसमूहः । 'ग्रामजनबन्धुभ्यस्त |४||२|४३|| इति तल | देहे दुग्धा । कर्मणि लिट् । 'अत एकहल्मध्येऽनादेशादेर्लिंटि |६|४|१२०।' इत्येत्वाभ्यासलोपौ । गत इति भूतकाल : श्वो भवितेति भविष्यत्कालेन सम्बध्यमानः साधु: । 'धातु- सम्बन्धे प्रत्ययाः | ३|४|१|' इति । ये तु तत्र धीरो: ते च्युतमन्यवो विगत- शोकाः सन्तः कुमारानुगमे कुमारस्य पश्चाद्गमननिमित्तं मनांसि दधुः कृत- वन्तः । राममनुव्रजाम इति । निमित्तात्कर्मसंयोगे सप्तमीति । मनांसीति कर्मणा योगात् ॥ ११ ॥ । प्रस्थास्यमानावुपसे दुषस्तौ शोशुच्यमानानिदमूचतुस्तान् । किं शोचतेहाभ्युदये बताऽस्मान् नियोगलाभेन पितुः कृताऽर्थान् १२ प्रस्थेत्यादि- - - ता रामलक्ष्मणौ प्रस्थास्यमानौ गमिष्यन्तौ । 'समवप्रविभ्यः स्थः | १|३|२२|' इति तङ् । जनान् इदं वक्ष्यमाणमूचतुः उक्तवन्तौ । ब्रुवी- त्यर्थग्रहणात् वचेर्द्विकर्मकता । उपसेदुपस्तौ ढौकितवतः जनान् । 'भाषायां सद्- वसश्रुवः ।३।२।१८०।'इति क्वसुः । शोशुच्यमानान् अत्यर्थं शोकं कुर्वतः । भृशार्थे यङ् । किमूचतुरित्याह - किं शोचतेति । हे जनाः ! कस्मादस्मान् शोचत परि- देवयध्वम् । विधावपूर्वार्थप्रकाशने लोट् । इहाभ्युदये बतशब्दो विस्मये । तस्मिन् आश्चर्यभूते अभ्युदये वृद्धौ सत्याम् । कुत इत्याह --पितुर्नियोगला. भेन वनगमनाज्ञालाभेन कृतार्थान् लब्धप्रयोजनान् । कृतार्थत्वादशोच्या वय- मित्यर्थः ।। १२ ।। असृष्ट यो यश्च भयेष्वरक्षीद् यः सर्वदाऽस्मानपुषत्स्वपोषम् । महोपकारस्य किमस्ति तस्य तुच्छेन यानेन वनस्य मोक्षः ॥ १३ ॥ असृष्टेत्यादि -- असृष्ट जनितवान् । सृजेदैवादिकस्यात्मनेपदित्वात् लुङि रूपम्।न तौदादिकस्य परस्मैपदित्वात् ‘सृजिदृशोर्झल्यमकिति । ६।१।५८।' इत्यम् । यश्च भयेषु सत्सु अरक्षीत पालितवान् । 'रक्ष पालने' इत्यस्य लुङि रूपम् । यः सर्वदा सर्वकालम् । 'सर्वैकान्यकिंयत्तदः काले दा|५|३|१५|' इति दाप्रत्ययः । यश्चापुषत् पुष्टवान् | स्वपोषं धनेनास्मानपुषत् । पुषेर्लुङि रूपम् । 'पुषादिद्युतालदितः परस्मैपदेषु |३|१|५५|' इत्यङ् । 'स्वे पुषः | ३ |४|४० ।। १ च्युतशोकटवे धीरत्वं हेतुः ।