पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(४८) भट्टिकाव्ये जयमङ्गलासमेते- तृतीयः- इदं चापरमनुष्ठितं तथा भरता राज्येऽभिषिच्यतामिति भरताभिषेको मतौ मनसिं निचले निखातः । कर्माणि लिट् । 'गहमनजनखनघसां लोपः ङ्कित्यनडि ।६ । ४ । ९८। इत्युपधालोपः । तथा विषादः शंकुरिव शल्यमिव निचस्ने । ज्येष्ठ- त्वात् नायं समभिषिच्यत इति विषादः । संग्रामात्किल परिश्रान्तमागतं दश- रथं केकयी परिचचार तेन परितुष्टेनोक्तं किं ते दास्यामीति | सा प्राह यदार्थ - यिष्यते तदा यूयं दास्यथेति सा तदवसरं बुद्ध्वा वरद्वयं प्रार्थितवती । एको रामस्य वनगमनं द्वितीयो राज्ये भरतोऽभिषिच्यतामिति ॥ ८ ॥ ततः प्रवित्राजयिषुः कुमारमादिक्षदस्याभिगमं वनाय | सौमित्रिसीतानुचरस्य राजा सुमन्त्रनेत्रेण रथेन शोचन् ॥ ९ ॥ तत इत्यादि-केकयीप्रार्थनानन्तरं राजा कुमारं रामं प्रवित्राजयिषुः प्रव्रज- न्तमनंःप्रव्राजयितुमिच्छु: व्रजेर्हेतुमण्ण्यन्तात्सन् । अस्य कुमारस्य | रथेन वना- भिगममभिगमनम् । 'ग्रहवृहनिश्चिगमश्च । ३ | ३ | ५८ | १ इत्यप् | आदि- क्षत् आदिष्टवान् । अस्येति कर्तरि षष्ठी । वनायेति । 'गत्यर्थकर्मणि द्वितीया- चतुर्थ्यो चेष्टायामनध्वनि । २ । ३ । १२ ।' इति चतुर्थी । सौमित्रिसीता- नुचरस्य लक्ष्मणसीतासहायस्य | सुमित्राया अपत्यम् । बाह्वादित्वादिञ् । सहच- रत्वेनाभ्यर्हितत्वात् पूर्वनिपातः । अनु पञ्चाञ्चरतीति अनुचर: 'भिक्षासेनादा- येषु च । ३ । २ । १७।' इति चकारस्यानुक्तसमुच्चयार्थत्वात् टः । अनुचरश्चा- नुचरी च। ‘पुमान् स्त्रिया | १ | २|६७ | तावनुचरौ सौमित्रिसीते अनुचरौ सहायौ यस्य । कालापिकास्ततोऽन्यत्रापि पठन्ति अधिकरणोपपदे 'चरेष्टः' इत्य- र्थः । नीयतेऽनेनेति नेत्रं लोचनम् । 'दाम्नीशसयुयुजस्तुतुदासिसिचमिहपतदश- नहः करणे । ३ ।२।१८२ | इति ट्रन् । सुमन्त्रनामा रथवाहको नेत्रमिव यस्य रथस्य तद्वशात्तस्य प्रवृत्तेः । शोचन परिदेवयमानो राजा ॥ ९ ॥ केचिन्निनिन्दुनृपमप्रशान्तं विचक्रशुः केचन साऽस्रमुच्चैः । ऊचुस्तथाऽन्ये भरतस्य मायां धिक्केकयीमित्यपरो जगाद ॥१०॥ केचिदित्यादि — राज्ञा वनगमने समादिष्टे सति केचिज्जना नृपं निनिन्दुः कुत्सितवन्तः। ‘णिदि कुत्सायाम् ।' अप्रशान्तं वृद्धभावेऽपि स्त्रीवशम् । केचन केचित्सास्रं सबाप्पमुचैः सुष्टु विचुक्रुशुः सुतरामाकान्दतवन्तः । तथान्ये भर- तस्य मायां शाठथमूचुः उक्तवन्तः । तत्कृतोऽयं प्रयोगो येनात्मरक्षणार्थ माता- महनिवासे स्थित इति । अपरो धिक्केकर्यां ययैवमनुष्ठितामति जगाद गदितवान्। 'घिगुपर्यादिषु त्रिषु' इति धिग्योगे द्वितीया ॥ १० ॥ १ अन्न 'तुल्ययोगिता' ।