पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकीर्णकाण्डम् । (४७) सर्गः ] मातुः पिता मातामहः । 'पितृव्यमातुलमातामहपितामहाः |४|२|३६।' इति निपातनात् डामहच् । आवासः निलयम्। आवसत्यस्मिन्निति अधिकरणे घञ् । उपेयिवांसम्।‘उपेयिवाननाश्वाननूचानश्च । ३।२।१०९' इति निपातितः । मोहादज्ञा- नात् । दूतप्रेषणेनापृष्ट्वा। रामस्येति कर्तरि षष्ठी | वनाय प्रयाणं गमनमिति चतुर्थीति योगविभागात् समासः । 'गत्यर्थकर्मणि द्वितीयाचतुर्थ्यो चेष्टायामनध्वनि |२|३|१२|| इति चतुर्थी | परत्वात्कृल्लक्षणया षष्ठ्या भवितव्यमिति चेत् न । पुनर्द्वितीयाग्रहणात्परामपि षष्ठीं बाधित्वा द्वितीयैव यथा स्यादिति । यद्येवं द्वितीयैव स्यात् न चतुर्थी । नैष दोषः । द्वितीयाग्रहणस्योपलक्षणाथ त्वात् । तथा च वृत्तावुभयमुक्तं – ग्रामं गन्ता ग्रामाय गन्तेति ॥ ६ ॥ कर्णेजपैराहितराज्यलोभा स्त्रैणेन नीता विकृति लघिम्ना । रामप्रवासे व्यमृशन्न दोषं जनाऽपवादं सनरेन्द्रमृत्युम् ॥ ७ ॥ कर्णइत्यादि – कर्णे जपन्ति कर्णेजपा: सूचकाः मन्थरादयः । 'स्तम्ब - कर्णयो रामजपोः |३|२|१३|' इत्यच् । ' तत्पुरुषे कृति बहुलम् |६|३|१४|१ इति सप्तम्या अलुक् । तैराहितः आनायितो राज्यलोभो यस्याः सैवम् । खेणेन स्त्रिया अयम् । ' स्त्रीपुंसाभ्यां ननौ भवनात् । ४। १ । ८७ ।' इति नन् । लघोर्भावो लविमा ' पृथ्वादिभ्य इमनिज्वा । ५ । १ । १२२ ।' इतीमनिच । टिलोपः । तेन विकृतिमन्यथात्वं नीता केकयी रामप्रवासे सति दोष न व्यमृ- शत् नालोचितवती ।' मृश आमर्शने ।" इति तौदादिकस्य लङि रूपम् । किंस्वरूपं दोषम् --जनापवाद लोकवैमुख्यम् | राज्या ज्येष्ठः पुत्रोऽनया प्रनाजित इति । नरेन्द्रस्य दशरथस्य मृत्युना सह वर्तमानम् ॥ ७ ॥ वसूनि देशांश्च निवर्तयिष्यन् रामं नृपः संगिरमाण एव । तयाऽवजज्ञे भरताऽभिषेको विषादशश्च मतौ निचने ॥ ८ ॥ वसूनीत्यादि-- रामं निवर्तयिष्यन् रामं निवर्तयितुं वसूनि द्रव्याणि देशां- श्र समिरमाण एव प्रतिजानान एव दास्यामीति नृपो राजा कैकेय्या तद्नङ्गीक- रणादवजज्ञे अवज्ञातः । ज्ञा इत्ययं धातुरवपूर्वोऽत्रज्ञाने वर्तते । तस्मात्कर्मणि लिट् । ‘ गमनजनखनघसां लोपः ङ्कित्यनाङ । ६ । ४ । ९८ ।' इत्युपधा- लोपः । तत्र वृतेर्हेतुमण्ण्यन्तात् क्रियार्थोपपदे लट् । सङ्गिरणं च क्रिया । गिरेस्तौदादिकात् 'अवाग्रः ॥ १॥ ३ ॥५१॥' इति अधिकृत्य 'समः प्रतिज्ञाने |१|३|५| २' इति तङ् | शानच् । 'ऋत उत् । ७ । १ । १०० ।' 'आने मुक् |७|२|२८| १ अत्र परिकरः । २ अन समाप्त पुनरात्तत्वमिति तृतीय चतुर्थपादौ व्यत्ययेन पठनीयौ ।