(४६) भट्टिकाव्ये जयमङ्गलास मेते- स्वात् सभर्मकुम्भान् ससुवर्णकलशान् । पत्काषिणः । पादौ शीलं येषामिति । 'सुप्यजातौ णिनिस्ताच्छील्ये |३|३|७७ | च ।६।३ । ५४ ।' इति पदादेशः । पदातीनित्यर्थ: । आश्विति 'कृवापाजिमि- स्वदिसाध्यशूभ्य उण्' इत्युणादिकादुण ॥ ४ ॥ [ तृतीयः- केषितुं हिंसितुं 'हिमाहितिषु उक्षान्मचकुर्नगरस्य मार्गान् ध्वजान्बबन्धुर्मुमुचुः खधूपान् । दिशश्च पुष्पैश्चकरुर्विचित्रैरर्थेषु राज्ञां निपुणा नियुक्ताः ॥ ५ ॥ उक्षानित्यादि – ये निपुणा अर्थेषु कार्येषु राज्ञा दशरथेन नियुक्ताः अधि- कृतास्ते नगरस्य मार्गान् पथः । उक्षान् सेकवतः प्रचक्रुः । उक्षणमुक्षा । 'गुरो- श्च हलः । ३।३।१०३।' इत्यकार: | सा विद्यते येषामिति 'अर्शआदिभ्योऽच् । ५|१२|१२७|' 'इजादेव गुरुमतोऽनृच्छः | ३|१|३६ |' इत्याम्प्रत्यये प्रचक्रुरित्य- नुप्रयोगो न घटते । 'कृञ्चानुप्रयुज्यते लिटि | ३ | १||४० |' इत्यनुशब्दस्य व्यवहि- तनि वृत्त्यर्थत्वात् । ध्वजान् बबन्धुः उच्छ्रायितवन्तः । मुमुचुः खधूपान् आकाशे घटिकादिभिर्धूपान्मुमुचुः प्रमुक्तवन्तः । दिशश्च पुष्पैश्चकरुः छादितवन्तः । 'कृ विक्षेपे ।' इत्यस्य लिटि 'ऋच्छत्यृताम् |७|४|११|' इति गुणः । विचित्रैः • नानाप्रकारैः ॥ ५ ॥ • मातामहाऽऽवासमुपेयिवांसं मोहादष्पृष्ट्वा भरतं तदानीम् । तत्केकची सोढुमशक्नुवाना ववार रामस्थ वनप्रयाणम् ॥ ६॥ मातेत्यादि-- तत्पूर्वोक्तमभिषेकसंविधानं सोदुमशक्नुवाना असहमाना केकयी केकयस्य देशविशेषस्य, लक्षणया तदीशस्येति यावत् । इयं पुत्रीति तथोक्ता रामस्य वनप्रयाणं ववार प्रार्थितवती राज्ञ इत्यर्थात् । सहेः शक्नोतावुप- 'पदे 'शकधृषज्ञाग्लाघटरभलभक्रमस हार्हास्त्यर्थेषु तुमुन् |३|४|६५।' इति तुमुन् । तत्र नव्या शक्यर्थस्य प्रतिषेधेऽपि न दोषः प्रतिषेधस्य बहिरङ्गत्वात् । शक्नोतेः परस्मैपदित्वात् शानज् नास्ति । 'ताच्छोल्यवयोवचनशक्तिषु चा- नश् |३|२|१२९|' इति चानश् । स्वादित्वात् श्नुः । 'अचि अनुधातुभ्रुवां य्वो- रियो |६|४|७७' इत्युवङ् । किं कृत्वेत्याह -- तदानीं प्रार्थ- नाकाले देशान्तरावस्थितत्वात् किमेवं क्रियते न वेति न भरतं पष्टवती । । देशान्तरास्थितिं दर्शयन्नाह --मातामहावासमिति १ अश्वादियानसाहाय्यमन्तरेण गमने चरणपीडावहत्वमिति यथोक्तम् । -
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/८४
दिखावट