पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रकीर्णकाण्डम् | (४५) ६।३।६७।' इति मुम् । कुमारो यस्य स प्रियंभविष्णुः । यस्यापि प्राक् प्रियो न जातः पश्चादपि तथैव न प्रियो भूतः स नासीत् न बभूव ॥ १ ॥ ततः सुचेतीकृतपौर भृत्यो राज्येऽभिषेक्ष्ये सुतमित्यनीचैः । आघोषयन्भूमिपतिः समस्तं भूयोऽपि लोकं सुमनीचकार ॥ २ ॥ तत इत्यादि -- ततः प्रियम्भविष्णुताया अनन्तरं भूमिपतिर्दशरथो लोकं सुमनीचकारं । किभैयं सम्यक् पालयिष्यति न वेति असुचेतसः पौरा भृत्याश्च जाता: ते `सम्यक्पालनात् सुचेतसः कृता येन स सुचेतीकृतपौरभृत्यः । भूयो- ऽपि पुनरपि लोकं समस्तं सुमनीचकार । कथमित्याह --राज्ये राजकर्माणि पालनलक्षणे सुतं रामं अभिषेक्ष्ये तदभिषेकं करिष्यामीति । सिचेरुभयपदित्वा- तङ् । अनीचैर्महता ध्वनिना | आघोषयन् घोषणां कारयन् । सुचेतीसुमनीश- ब्दौ 'अरुर्मनश्चक्षुश्चे तोरहोरजसां लोपश्च ॥५॥४॥५१॥ इति साधू ॥ २ ॥ - आदिक्षदादीप्त कृशानुकल्पं सिंहासनं तस्य सपादपीठम् । सन्तप्त चामीकरवल्गुवज्रं विभागविन्यस्तमहार्वरत्नम् ॥ ३ ॥ आदिशदित्यादि -- तस्य रामस्य सिंहासनमादिक्षत् आदिष्टवान् एवंविधं कारयति । दिशेः स्वरितेतो लुाङ 'शल इगुपधादनिटः क्सः |३|१|४५|' इति च्ले: क्सः । अकर्तृगामिक्रियाफलत्वात्तिप् । आदीप्तकृशानुकल्पं ज्वलिता- नितुल्यम् । तस्य कारणमाह - सन्तप्त चामीकरवर्णानि वर्णानि वाणि यास्मन् । तथा विभागेषु विन्यस्तानि अतिमहार्घाणि रत्नानि पद्मरागादीनि यत्र । सपादपीठं सह पादपीठेन ॥ ३ ॥ प्रास्थापयत्पूगकृतान्स्वपोषंपुष्टान्प्रयत्नादृढगात्रबन्धान | सभर्मकुम्भान्पुरुषान्समन्तात् पत्काषिणस्तीर्थजलाऽर्थमाशु ॥ ४ ॥ प्रास्थेत्यादि - तीर्थजलार्थ पुरुषान् प्रयत्नात् आदरेण | समन्तात् सर्वासु दिक्षु । आशु शीघ्रं प्रास्थापयत् प्राहिणोत् । प्रपूर्वस्तिष्ठतिर्गमने वर्तते। तस्य हेतु- मण्ण्यन्तस्य लङि रूपम् । पूगकृतान् अपूगा: पूगाः कृताः इति ' श्रेण्यादिषु व्यर्थवचनम्' इति समासः । संघीकृतानित्यर्थः । स्वपोषं पुष्टान् । 'स्वे पुष: 1३।४।४०।' इति णमुल् | ‘अमैवाव्ययेन |२|२|२०|' इति समासः । यथाविध्य - प्रयोगश्च । दृढो गात्रबन्धो येषां तान् । संयतकायान् । महाभारोद्वहनक्षम- १ प्रसन्नं चकार | २ तत एवाह किमयमित्यादि । ३ आपूर्वकस्य 'दिश अतिसर्जने' इत्यत्य लुङि रूपमिदम् ।