सामग्री पर जाएँ

पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(४४) भट्टिकाव्ये जयमङ्गलासमेते- [ तृतीयः- विमवामुपधायाश्च 6 ।६।४ । २० ।। इति वकारोपधयोरूठ् । रदाभ्याम्- । ८ । २ ४२ । ' इति नत्वम् । अयोध्यामायात् आगतम् । आइ- पूर्वाद्यातेलङि रूपम् । पुरुर्महान् वेगो जवः तेन योगात् । पूर्यते वर्धते इति पुरुः । 'कुर्ब्रश्च' इत्यधिकृत्य 'पृभिदिव्यधिगृधिवृषिभ्यः' इति कुप्रत्ययः । दूरसंस्थं दूरे सन्तिष्ठत इति कः । उर्वीविभागम् । नेदयत् अन्तिकं कुर्वत् । अन्तिकशब्दात् समीपवाचिन: तत्करोतीति णिच् । इष्टवद्भावात् 'अन्तिक- बाढयोनेंदसाधौ । ५ । ३०|६३|| इति नेदादेशः पश्चाल्लट् । शतरि शप् । अया-- देशः । प्राप्तं विषयीकृतं चावविभागं भूविभागम् । अतिरयेण अतिवेगेन । दवयत् दूरीकुर्वत् पश्चाागेन । दूरशब्दात् पूर्ववण्णिाचे इष्टवद्भावे च 'म्यूल- दूरयुवहस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः । ६।४ । १५६ । ' इति यणादिपरलोपः पूर्वस्य च गुण: । पश्चात्तथा एव लडादयः । क्लृमरहितम् अप- गतश्रमम् । अचेतत् कियद्दूरमागतोऽहमित्यबुध्यमानम् । 'चिती संज्ञाने इत्येतस्य शतरि रूपम् । अनीरजा नीरजाः कारितेति 'अरुर्मनश्चक्षुश्चेतोरहो - रजसां लोपश्च । ५ । ४ । ५१ ।' इति च्वावन्त्यलोपः । 'अस्य च्वौ | ७|४|५१॥' इतीत्वम् । नीरजीकारिता क्ष्मा भूमिर्यस्यामयोध्यायां ताम् । सिक्तसंमृष्टभूत- लामित्यर्थः । उपहितशोभाम् छत्रध्वजपताकाभिरारोपितशोभाम् ॥ ५५ ॥ इति श्रीजयमङ्गलसूरिविरचितया जयमङ्गलाऽऽख्यया व्याख्यया समलंकृते श्रीभट्टिकाव्ये प्रथमे प्रकीर्णकाण्डे लक्षणरूपे द्वितीयः परिच्छेदः लक्ष्यरूपे कथानके सीतापरिणयो नाम द्वितीयः सर्गश्च ॥ तृतीयः सर्गः । । वधेन सङ्ख्ये पिशिताऽशनानां क्षत्रान्तकस्याऽभिभवेन चैव । आढचं भविष्णुर्यशसा कुमारः प्रियंभविष्णुर्न स यस्य नाऽऽसीत् ॥ १ ॥ वधेनेत्यादि-संङ्ख्ये संग्रामे पिशिताशनानां राक्षसानाम् । पिशितं मांसम् अशनं येषामिति । तेषां वधेन हननेन । 'हनश्च वधः । ३ । ३ । ७६ ।' इति अप्प्रत्यये वधादेशः । कृत्प्रयोगे कर्माणि षष्ठी । क्षेत्रान्तकस्य परशुरामस्य । अभिभवेन पराजयेन च 'ऋोरप् | ३ | ३|५७ ।' चैवशब्दो निपातसमुदायः समुच्चये । तेन हेतुभूतेन | यशसा आढ्यंभविष्णुः । अनाढय आढयो भूतः । 'कर्तरि भुवः खिष्णुच्खुकञौ |३|२|५७।' इति खिष्णुच् 'अरुद्विषदजन्तस्य मुम् । १ अत्र ' मालिनी ' वृत्तं तल्लक्षणं चोक्तं प्राकू ।