पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकीर्णकाण्डम् । (४३) 217 सर्गः ] ।४।३ । २० ।' इत्यण् । वाक्यं वचनम् । यदा दर्पेण मदेन हेतुना स जाम- दग्न्यः नाजीगणत् न गणितवान् । 'गण संख्याने ।" इत्यस्यादन्तत्वान्न वृद्धि | ‘चङि । ६ । १ । ११ ।' इति द्विवचनम् । 'ई च गणः । ७ । ४ ९७ । इति अभ्यासस्येकारः । तदा कुमारो रामो धनुर्व्यकार्क्षीत् आकृष्टवान् । 'कृष' आकर्षणे ।' स्पृशमृशेत्यादिनोपसंख्यानेन सिचि पक्षे रूपम् । हलन्तलक्षणा वृद्धिः । ‘षढोः कः सि । ८ । २ । ४१ । ' इति कत्वम् । कृतदारकर्मापि पुत्रः पितारी जीवति कुमार इति व्यपदिश्यते । गर्भयतीति गर्भः । गुरु- र्बाणो गर्भो यस्य धनुषः । लोकांश्च स्वप्रभावाद्विजितान् । तस्य परशुरामस्य | अलोवत् छिन्नवान् । लुनातेलुङि सिचि वृद्धौ रूपम् । समुच्छिद्यन्तामस्या लोका इति अमोघमस्रं मुक्तवानित्यर्थः । ततः प्रभृति तस्य सर्वे तेजोऽपहृतम् ॥ ५३॥ जिते नृपारौ सुमनीभवन्ति शब्दायमानान्यशनैरशङ्कम् । वृद्धस्य राज्ञोऽनुमते बलानि जगाहिरेऽनेकमुखानि मार्गान् ॥५४॥ जित इत्यादि - जिते नृपारी परशुरामे बलानि सैन्यानि मार्गान् पथ:- जगाहिरे अवष्टब्धवन्ति । वृद्धस्य राज्ञो दशरथस्यानुमते सति गच्छतेति । जाम- दग्न्यसंरम्भादसुमनांसि सुमनांसि सन्ति सुमनीभवन्ति बलानि । 'अरुमन- चक्षुश्चेतोरहोरजसां लोपश्च । ५ । ४ । ५१ ।' इति च्वावन्त्यस्य लोपे 'अस्य च्वौ । ७। ४ । ३२ ।' इतीत्वे रूपम् । शब्दायमानानि । अशनैः सुष्ठु शब्दं कुर्वाणानि । एवं जितस्तथा जितो नृपारिरिति । ' शब्दवैरकलहाभ्रकण्वमेधे- भ्यः करणे । ३ । १ । १७ ।' इति क्यङ् । अशङ्कं निर्भयं जगाहिर इति क्रिया - विशेषणम् । अनेकमुखानि पृथग्भूतानि पूर्व भयेन बहुलीभूतत्वादनीकानां बहुवचनमिति ॥ ५४ ॥ अथ पुरुजवयोगान्नेदय दूरसंस्थं दवयदतिरयेण प्राप्तमुर्वीविभागम् । क्लमरहितमचे तन्नीरजीकारितक्ष्मां बलमुपहितशोभां तूर्णमायादयोध्याम् ॥ ५५ ॥ अथेत्यादि-अथेत्यानन्तर्ये । बलं दाशरथम् । तूर्णं शीघ्रम् । ‘रुष्यमन्वर- संघुषाऽऽस्वनाम् । ७। २ । २८ ।' इति पक्षे इडभावः । ‘ज्वरत्वरस्रिव्य- १ लूञ् छेदने । २ नृपा अरयः वध्यत्वेन वधकत्वेन च शत्रवः यस्य तस्मिन् । रामो हि पूर्वं नृपान् हतवान् सम्प्रति च स्वयं जित इति तथोक्तत्वम् ।