पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(४०) भट्टिकाव्ये जयमङ्गलासमेते- [ द्वितीयः- चञ्चलेति व्यतिरेकः। ‘ऊङुतः । ४ । १ । ६६ ।' इति ऊङ् न भवति क्रियाश- ब्दत्वात् । तत्र मनुष्यजातेरिति वर्तते । शशाङ्ककान्तेर्याधिदेवता अधिष्ठात्री ‘देवता तस्या आकृतिर्यस्याः । सौम्यात्वात् । आक्रियते अनयेत्याकृतिः संस्थानम् ' अकर्तरि च कारके सञ्ज्ञायाम् । ३ । ३ । १९ ।। इति स्त्रियां क्तिन् ॥ ४७ ।। लब्धां ततो विश्वजनीनवृत्तिस्तामात्मनीनामुदवोढ रामः । सद्रत्नमुक्ताफलभर्मशोभां सम्बंहयन्तीं रघुवर्ग्यलक्ष्मीम् ॥ ४८ ॥ लब्धामित्यादि--ततो दानानन्तरम् लब्धां तामात्मनीनाम् आत्मने हिताम् । ‘ आत्मन्विश्वजनभोगोत्तरपदात्खः ।५।११९ ।' इति खः । रामः उद्- वोढ | वः स्वरितेत्त्वात्वात्कर्तुः क्रियाफलविवक्षया तङ् । विश्वजनीना विश्वजनाय हिता वृत्तिः प्रवृत्तिर्यस्य रामस्य सः पूर्ववत् खः । सती उत्कृष्टा रत्नादिशोभा यस्याः । तैरलंकृतत्वात् । तां सद्रत्नमुक्ताफलभर्मशोभाम् । भर्म स्वर्णम् । सर्वधातुभ्यो मनिन् । 'भर्मभूषाम्' इति पाठान्तरम् । सद्रत्नादि भूषा अलङ्कारो यस्या इति योज्यम् ।' गुरोश्च हलः | ३ | ३ | १०३ ।' इत्यकार: । सम्बंहयन्तीं संबहुलामतिस्थिरां कुर्वाणाम् । बहुलशब्दात् 'तत्क- रोति तदाचष्टे' इति णिचि इष्टवद्भावात् ' प्रियस्थिरस्फिरोरुबहुलगुरुवृद्ध- तृप्रदीर्घवृन्दरकाणां प्रस्थस्फववैहिगर्वर्षित्रबुद्राघिवृन्दाः | ६ | ४ | १५७ ।' इति बहादेशः । पश्चात्तदन्तस्य संपूर्वस्य साधनेन योगः | कामित्याह - रघु- वर्ग्यलक्ष्मीमिति । रघुवर्गे भवां विभूतिम् । 'वर्गान्ताच्च । ४ । ३ । ६३ ।। इत्यनुवृत्तौ 'अशब्दे यत्खावन्यतरस्याम् । ४ । ३ । ६४ ।' इति यत् ॥ ४८ ॥ सुप्रातमासादितसंमदं तद् वन्दारुभिः संस्तुतमभ्ययोध्यम् । अश्वीय राजन्य कहास्तिकाऽऽढचमगात् सराजं बलमध्वनीनम् ४९ ॥ सुप्रातेति – विवाहं निर्वर्त्य प्रभाते अयोध्याभिमुखं तदूलं दशरथस्यागात् गतवत् । सुप्रातं निरुपद्रवत्वात् । शोभनं प्रातर्दिनमुखं यस्य बलस्य । 'सु- प्रातसुश्वसुदिवशारिकुक्षचतुरश्रैणपिदाजपद प्रोष्ठपदाः । ५ । ४ । १२० ।' इति समासान्तष्टिलोच निपात्यते । आसादितसंमदं प्राप्तहर्षम् । 'प्रमद- सम्मदौ हर्षे । ३ । ३ । ६८ | इति निपातनम् । वन्दारुभिः संस्तुतं कृत- स्तवम् । अभ्ययोध्यम् अयोध्याभिमुखम् । 'लक्षणेनाऽभिप्रती आभिमुख्ये । २ । १ । १४ ।' इति अव्ययीभावः । अश्वानां समूहो अश्वीयम् । 'केशा - " १ ' भर्म स्यात् काञ्चने भृतौ इति मेदिनी २ आसादितः सम्मदो येन तादृश- मित्यर्थः। ‘ प्रमोदामादसम्मदाः' इत्यमरः | ३ ' वृन्दे त्वश्वीयमाश्ववत्' इत्यमरः ।