पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रकीर्णकाण्डम् । (३९) प्रस्थस्फवबह- यथासंख्यं प्रियस्थिरस्फिरोरुब हुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां गर्वत्रिन्द्राधिवृन्दाः |६|४|१५७७ इति वृन्दप्रगहवर इत्येते आदेशा भवन्ति ॥ ४५ ॥ त्रिवर्गपारीणमसौ भवन्त मध्यासयन्नासन मे कमिन्द्रः । विवेकश्वत्वमगात्सुराणां तं मैथिलो वाक्यमिदं बभाषे ॥ ४६ ॥ त्रिवर्गेत्यादि -- तं दशरथं मैथिलो जनकः वाक्यमिदं बभाषे । ब्रवीत्यर्थग्र- हणात् द्विकर्मकता । किं तद्वाक्यमित्याह - असाविन्द्रो भवन्तम् एकासनमध्या- सयन् आरोपयन् विवेकदृश्वत्वमगादिति संबन्ध: । आसनस्य 'अधिशीङ् - स्थासां कर्म । १ । ४ । ४६ ।' इत्यधिकरणे कर्मसंज्ञा । भवन्तमिति 'गतिबुद्धि- प्रत्यवसानार्थशब्दकर्म्माकर्म्मकाणामणि कर्त्ता सणौ ।१ । ४ । ५२ ।' इत्यस्ते- रण्यन्तावस्थायामकर्मकत्वात् । पारंगामीत्यस्मिन्वाक्ये । 'अवारपारात्यन्तानु- कामंगामी । ५। २ । ११ ।' इति पारशब्दात् खः । तत्र विगृहीतविपर्यस्तम- हणात् । त्रिवर्गस्य धर्मार्थकामस्य पारीणमिति षष्ठीसमासः । त्रिवर्गपारीणं भवन्तम् । सुराणां मध्ये स एवैको विवेकश्वत्वं विवेकज्ञतामगात् । ‘इणो गा लुङि। २ । ४। ४५।' 'गातिस्थाघुपाभूभ्यः - २ | ४ । ७७ ।' इति सिचो लुक् । विवेकं दृष्टवानिति दृशे : वनिप् ॥ ४८ ॥ हिरण्मयी साललतेव जङ्गमा च्युता दिवः स्थास्नुरिवाऽचिरप्रभा | शशाङ्क कान्तरधिदेवताऽऽकृतिः सुता ददे तस्य सुताय मैथिली ४७ हिरण्मयीत्यादि--तस्य दशरथस्य सुताय रामाय । सूयत इति सुतः । षु प्रसवैश्वर्ययोः' इत्यस्मात् कर्माण निष्ठा | सुता मैथिली सीता ददे जनके - नेत्यर्थात् । कर्मणि लिट् | मैथिलस्यापत्यं ' अत इञ् । ४ । १ । ९५ ।' तद्- न्तात् ' इतो मनुष्य जातेः । ४ । १ । ६५ ।। इति ङीष् । रामस्य ज्येष्ठत्वात्त- स्यैव कविना परिणय उक्तः न शेषाणाम् । तेन अन्या अपि तदैव दुहितरो दत्ताः । हिरण्मयी सुवर्णनिर्मितेव साललता वृक्षलता | सुवर्णच्छवित्वात् तस्याः हिरण्यविकार इति मयटि' दाण्डिनायनहास्तिनायनाथर्वणिक जैह्माशिनेयवा- शिनायनि श्रौणहत्यधैवत्यसारवैक्ष्वाकमैत्रेयहिरण्मयानि । ६ । ४ । १७४ । इति यलोपनिपातनम् । जङ्गमा संचारिणी नतु स्थावरा । अत्यर्थं गच्छतीति यडि नुगतः ७।४। ८५।' इतिः नुक् । यङन्तापचाद्याचे यङेऽचि च । २ । ४ । ७४ ।' इति यङो लुक् च्युता दिवः आकाशात्पतिता । अचि - रप्रमेव विद्युदिव तेजस्वित्वात् तन्वत्विाच्च । किन्तु स्थास्तुरचञ्चला । सा तु १ 'त्रिवर्गो धर्मकामार्थैः' इत्यमरः । ,