पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भट्टिकाव्ये जयमङ्गलासमेते- [ द्वितीयः- क्षिप्रमित्यादि-आख्यान्ति कथयन्ति ये ते आख्यायकास्तेभ्यः श्रुता सुनुवृत्तिर्येन स राजा दशरथः । सूयत इति सूनुः पुत्रः 'दाभाभ्यां नुः' इति वर्तमाने 'सुवः किच्च' 'इत्यौणादिको नुप्रत्ययः । ततोऽनन्तरमेव क्षिप्रं शीघ्रम् ‘स्फायितचिवचिशकिक्षिपिक्षुदिसृपितृपिपिवन्द्वीन्दश्चिति- वृत्यजिनीपदिमदिमुदिखिदिच्छिदिभिदिमन्दिचन्दिदहिदसिद्भिभवसिवाशिश - सिसिधिशुभिभ्यो रक् ।' इति रक् । क्रियाविशेषणं चैतत् । मिथिलाम- गच्छत् । भरतशत्रुघ्नाभ्यां सहेत्वर्थादनुपक्तव्यम् । गमेर्लङि 'इपुगमियमां छः |७|३|१७|' अध्वानम् अलं गामिनो ये तुरंगा अश्वाः ते अध्वन्यः । अलं गामीत्यस्मिन्नर्थे‘अध्वनो यत्खौ | ५ | २ | १६ | १ इति यत् । ये चाभावकर्मणोः |६|४|१६८।' इति प्रकृतिभावः । तैः साधु यातीति साधुकारिणि णिनिः । अध्वन्यतुरंगयायी । एवं च कृत्वा अग्लानयानः न विद्यते ग्लानं ग्लानिर्यस्मिन्याने तत् अग्लानं यानं यस्येति । तादृशः तादृशेस्तुरङ्गैः सुखयान इति भावः । ग्लानेति भावे निष्ठा । संयोगादेरातो धातोर्यण्वतः |८|२|४३|' इति नत्वम् । वृद्धतमोऽपि यविष्ठवत् । युवशब्दस्ये- ष्ठति 'स्थूलदूरयुवहस्वक्षिप्रक्षुद्राणां यणादिपरम्पूर्वस्य च गुणः ||६|४|१५६ | इति यणादिपरलोपः पूर्वस्य च गुणः । पश्चात् 'तेन तुल्यं क्रियाचद्वतिः ॥ ५ ॥१॥ ११५ |' इति वतिः ॥ ४४ ॥ वृन्दिष्ठमाचद्वसुधाऽधिपानां तं प्रेष्ठमेतं गुरुवद्गरिष्ठम् । सह महान्तं सुकृताऽधिवासं बंहिष्ठकीर्तिर्यशसा वरिष्ठम् ॥ ४५ ॥ (३८) वृन्दिष्ठमित्यादि —तं राजानमेतमायान्तं जनक आर्चीत् पूजितवान् । अर्चेर्लुङि रूपम् । वृन्दिष्टं वृन्दारकतमम् प्रशस्ततममित्यर्थः । केषां वसुधाधि- पानां पृथ्वीपतीनाम् । श्रेष्ठं प्रियतमम् । गुरुवत् गुरुणा तुल्यं वर्तमानं गरि- ष्ठम् गुरुतमम् । सदृक् समानान्ययोश्चेत्युपसंख्यानाद् दृशेः किन् । रूढिशब्द- श्चायम् । नात्र दर्शनक्रिया विद्यते । अभिजनादिभिस्तुल्यो जनक इत्यर्थः । महान्तं महानुभावं सदृशां मध्ये महान्तम् । सुकृताधिवासं सुकृतनिलयम् । अधिवसत्यस्मिन्निति अधिकरणे घञ् । बंहिष्ठा बहुलतमा कीर्तिर्यस्य स बंहिष्ठ कार्तिः | यशस्रा वरिष्ठं गुरुतमम् । अत्र वृन्दारकप्रियगुरुबहुलोरूणार्मिष्ठनि १ अध्वनि यथेष्ट गमने योग्यैः अध्वन्यैः इत्यर्थः । २ 'साधिष्ठद्राविष्टस्फे- ठगीरष्ठहसिष्ठवृन्दिष्टाः' इत्यमरः | ३ 'प्रेष्ठवरिष्ट स्थविष्ठबंहिष्ठाः' इत्यमरः ।