सर्गः] प्रकीर्णकाण्डम् | (३७) बुद्धयर्थत्वात् । 'गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणिकर्ता स णौ |१९|४|५२|' इति रामस्य कर्मसंज्ञा । अस्य रामस्य बाह्वोर्भुजयोर्बलं जिज्ञासमानो जनकः । एवंभूतं धनुः हसन् स्मयमानो रघुनन्दनो रामः अभांक्षीत भग्नवान् । भञ्जेङ सिचि हलन्तलक्षणा वृद्धिः । तत्र हि हलग्रहणं समुदायप्रतिपत्त्यर्थ- मित्युक्तम् ॥ ४२ ॥ ततो नदीष्णान्पथिकान्गिरिज्ञानाह्वायकान्भूमिपतेरयोध्याम् । दित्सुः सुतां योधहरैस्तुरङ्गैर्व्यसर्जयन्मैथिलमर्त्य मुख्यः ॥ ४३ ॥ तत इत्यादि - धनुर्भङ्गादनन्तरं महानयमिति ज्ञात्वा जनकः सुतां दुहितरं दित्सुः दातुमिच्छुः । दादतेः । 'सनि मीमाधुरभलभशक पतपदामच इस् १७।४।५४।' इति अच इस् । द्विवचनम् । 'अत्र लोपोऽभ्यासस्य १७१४१५८।५ इत्यभ्यासलोपः । 'सः स्यार्धधातुके ७ । ४ । ७९ ।। इति तत्वम् । 'सना - शंस भिक्षः |३|२|१६८।' भूमिपतेर्दशरथस्य आह्वायकान् आह्वयन्ति आकार- यन्तीति कर्तरि ण्वुल् । 'आतो युक् चिकृतो: | ७|३|३३|| कृत्प्रयोगे भूमिपतेः कर्मणि षष्ठी | तान् अयोध्यां व्यसर्जयत् विसर्जितवान् । विपूर्वस्य सृजेर्हेतु- • मण्ण्यन्तस्य लङि रूपम् । गत्यर्थत्वात् द्विकर्मकता | नद्यां स्नान्तीति • नदीष्णा: । 'सुपि स्थः |३|२|४|| योगविभागात्कः । 'आतो लोप इटिच |६|४|६४ | 'निनदीभ्यां स्नातः कौशले |८|३|८९| इति षत्वम् । नदीं तरीतुं कुशलानित्यर्थः । पथिकान् पथि कुशलान् । तत्र कुशल: पथः १५१२/६३|' इति ठक् । गिरिज्ञान् यथाप्रदेशं गिरिज्ञान 'इगुपधज्ञाप्रीकिरः कः।३।१।१३५।' इति कः । तुरंगैः अश्वैः करणभूतैः । युध्यन्त इति योधाः । पचाद्यच् । तानाहर्तुंक्षमैः । 'वयसि च ।३।२।१०।' इत्यच 'हसिमृग्रिण्वामिद - मिलूपूघूर्विभ्यस्तन्' इत्यौणादिकस्तन् । म्रियन्ते प्राणिनोऽस्मिन्निति मर्त्यो भूर्लोकः तत्र भवा मत्या मनुष्याः । दिगादेराकृतिगणत्त्रात् यत् । आकृति- गणत्वस्य लिंग 'देवमनुष्यपुरुषपुरुमर्त्योभ्य' इति निर्देशः । मुखमेव मुख्यः प्रधानम् । 'शाखादिभ्यो यः |५|३|१०३|| मत्यँषु मुख्यो मर्त्यमुख्यः | मैथिलश्चासौ मर्त्यमुख्यश्चेति विशेषणसमासः | जनक इत्यर्थः ॥४३॥ क्षिमं ततोऽध्वन्यतुरङ्गन्यायीं 6 यविष्ठवद्धृद्ध तमोऽपि राजा । आख्यायकेभ्यः श्रुतसूनुवृत्तिरग्लानयानो मिथिलामगच्छत् ॥४४॥ 9 अत्र समाप्त पुनरात्तत्वं दोषः । २ अत्र 'मर्त्यानाम्' इति तु न युक्तः पाठः 'न निर्धारणे २१२/२०' इति षष्ठीनिषेधात् ।
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/७५
दिखावट