पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(३६) भट्टिकाव्ये जयमङ्गलास मेते- [ द्वितीयः- प्रयोजकव्यापारे णिच् | लुङ् आट् चङि णिलोप: । 'द्विर्वचनेऽाचे । १ ।१। ५९ ।' इति स्थानिवद्भावात् 'अजादेद्वितीयस्य ६ । १ । २ ।। इति हिशब्द- स्य द्विर्वचनम् । ‘नन्द्राः संयोगादयः ६ । १ । ३ ।' इति नकरास्य प्रतिषेधः । अभ्यासकार्यम् । आञ्जिहदिति रूपम् । राज्ञां यशांसि निजिघृक्षयिष्यन् नि - हीतुमभिभवितुमेषयिष्यन् । ग्रहे: सन् | 'सनि ग्रहगुहोश्च |७|२|१२ । इति इट्प्रतिषेधः । द्विवचनादि । 'रुदविदमुषग्रहिस्वपिप्रच्छः संञ्च । १ । २ । ८ । १ इति सनः कित्त्वम् । ग्रहिज्यावयिव्यधिवष्टिविचति- वृश्चतिपृच्छतिभृज्जतीनां ङिति च । ६ । १ । १६ ।” इति सम्प्रसारणम् । ढत्वभष्भावौ । गकारस्य घकारः | कत्वषत्वे | पञ्चाण्णिच् । तदन्ताद्भवि- ण्यत्सामान्यविवक्षायां लट् | तेन भविष्यदनद्यतने लुट् न भवति ॥ ४० ॥ एतौ स्म मित्रावरुणौ किमेतौ किमश्विनौ सोमरसं पिपासू | जनं समस्तं जनकाऽऽश्रमस्थं रूपेण तावौजिहतां नृसिंह ॥ ४२ ॥ 6 " । -- एतावित्यादि – एतौ तत्रागतौ नृसिंहौ नरौ सिंहाविव । जनकाश्रमस्थं जनं रूपेण स्वरूपतया औजिहतां वितर्क कारितवन्तौ । सिंहाविव । 'अह वितर्फे ' इत्यस्माद्धातोः ण्यन्तात् कर्तुः क्रियाफलाविवक्षायां ' णिचश्च । १.। ३ । ७४ ।' इति तङ् न भवति । चाङ णिलोपस्य स्थानिवद्भावात् । अजादेद्वितीयस्य । ६ । १ ।२ ।। इति द्विर्वचनम् । ऊहमाह - मित्रावरुणा आदित्यवरुणौ । 'देवताद्वन्द्वे च | ६ | ३ | २६ ।' इत्यानङ् । तयोर्महानु- भावत्वात् । सोमरसं पिपासू पातुमिच्छू। 'न लोकाव्ययनिष्ठाखलर्थतनाम् |२| ३ । ६९ । इति पष्ठीप्रतिषेधः । एतावागतौ । आङ्पूर्वस्येणो निष्ठायां रूपम । किमश्विनौ अश्विनीकुमारौ सोमरसं पिपासू एताविति । एवं जनम् आज- हताम् । सुशब्दपाठे एतौ सुमित्रेति पाठः । एतौ स्म मित्रेति स्मशब्दो निपात; पादपूरणार्थः ॥ ४१ ॥ अजिग्रहत्तं जनको धनुस्तद् येनाऽदिददैत्यपुरं पिनाकी | जिज्ञासमानो बलमस्य बाह्वोर्हसन्नभाङ्क्षीद्रघुनन्दनस्तत् ॥ ४२ ॥ अजिग्रहदित्यादि-यन धनुषा दैत्यपुरं पिनाकी महादेव आर्दिदत् हिंसि - तवान् । अर्दैः स्वार्थिकण्यन्तात् चाङ 'अजादेर्द्वितीयस्य |७|१|२|' इति दिश- ब्दो द्विरुच्यते रेफल्य प्रतिषेधः । 'तद्धनुस्तं रामं जनकः अजिग्रहत् बोधितवान् । अनेन धनुषा त्रिपुरंदग्धमिति । हेर्हेतुमण्ण्यन्ताञ्चङि णिलोपः । ‘णौ च- ड्युपधायाँ ह्रस्वः |७|४|१|' इति हस्वः । सन्वद्भावादित्वम् । महेश्च