पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रकीर्णकाण्डम् । - महीत्यादि — भवता भूमिः पृथिवी महीय्यमाना पूज्यमाना | अतिमात्र सुष्ठु सम्यक् पालनाद्दिवोऽपि स्वर्गस्य न हिणीयते न लज्जते किंतु प्रतिस्पर्धेत इति भावः । ‘हिणी, महीङ्' इति कण्ड्डादिपाठाद्यक् । (ङित्वात्तङ् । अवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवतीति ? ) महीयशब्दात्कर्माणि लकारः । शानच् । यक् । अतो लोपः । मुक् । महीय्यमानेति रूपम् । सुराध्वरे सुरानु- द्दिश्य योऽध्वरो यज्ञः क्रियते तत्र । ये धैस्मराः अदनशीला राक्षसा इति यावत् । 'सृधम्यदः क्मरच् ३।२ । १६० । तेषां जित्वरेण जयशीलेन भवता । 'इण्णशजिसर्तिभ्यः करप् ३।२ । १६३ इति करप् । वज्रा- युधभूषणाया: शक एवालङ्कारो यस्याः दिवः । वीरवती त्वद्विधो वीरो यस्यां भूमाविति ॥ ३८ ॥ • संक्षेपेण स्तुतिमाह - बलिर्वबन्धे जलधिर्ममन्थे जद्वेऽमृतं दैत्यकुलं विजिग्ये । कल्पाऽन्त दुःस्था वसुधा तथोहे येनैष भारोऽतिगुरुर्न तस्य ॥ ३९ ॥ बलिरित्यादि – येन भवता बलिर्बबन्धे बद्धः । जलधिर्ममन्थे मथितः । मन्दरं दोर्भिगृहीत्वा । 'मन्थ विलोडने' इत्यस्य रूपम् । संयोगान्तत्वाल्लिः- टोऽकित्त्वेन अनुनासिकलोपो न भवति । जह्वेऽमृतम् । स्त्रीरूपधारिणा । दैत्य- कुलं विजिग्ये विजितमनेकधा । 'सॅल्लिटोर्जे: :७ | ३ | ५७ ।' इति कुत्वम् । ‘एरनेकाचोऽसंयोगपूर्वस्य ६ । ४ । ८२ ।। इति यणादेशः । तथा कल्पान्ते प्रलये दुःस्था दुःस्थिता वसुधा पृथिवी ऊहे उद्धृता । वराहरूपिणा । वहेर्यजादित्वात् संप्रसारणम् । तस्य भवत एष भारो मुनिजनरक्षणम् अति • गुरुर्न भवति । सर्वत्र कर्मणि लिट् ॥ ३९ ॥ इति ब्रुवाणो मधुरं हितं च तमाञ्जिहन् मैथिलयज्ञभूमिम् । राम मुनिः प्रीतमना मखाऽन्ते यशांसि राज्ञां निजिघृक्षायेष्यन् ॥ ४० ॥ इतीत्यादि इति यथोक्तप्रकारेण मधुरं श्रोत्रसुखं हितं च ब्रुवाण: अभिद- धानः । ‘लक्षणहेत्वोः क्रियायाः ३|२|१२६|' इति शानच् । मुनिः प्रीतमना: मखान्ते यज्ञावसाने तं रामं मैथिलस्य यज्ञभूमिं आजिहत् गमितवान् । मिथि- लानां राजेति । 'जनपदशब्दात्क्षत्रियादञ् ४ | १ | १६८।' इत्यत्र तस्य राजन्य- “पत्यवदित्यतिदेशाद्ञ् । 'अहि गतौ ' । 'इदितो नुम् धातोः ७ । १ । ५८ । १ 'अनुपयुक्तोऽयं कोष्ठकान्तर्गतः पाठः' । २ 'भक्षको घस्मरोऽझरः इत्यमरः राक्षसपरत्वं तुलक्षणया । ३ 'जता जिष्णुश्च जित्वरः ।' इत्यमरः । ,