पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रकीर्णकाण्डम् । (४१) श्वाभ्यां यञ्छौ- ४ । २ । ४८ ।' इति छः । राजन्यानां क्षत्रियाणां सम- हो राजन्येकम् 'गोलोक्षांष्ट्रारभ्रराजराजन्यराजपुत्रवत्समनुष्या जाहुञ् ॥ ४॥२॥३९॥ इति वुञ् । 'प्रकृत्याके राजन्यमनुष्ययुवानः' इति प्रकृतिभावादपत्ययकार- लोपो न भवति । हैस्तिनां समूहो हास्तिकम् । 'अचित्तहस्तिधेनोष्ठक् ।४।२।४७।' इति ठक् । एषां सेनाङ्गत्वात् द्वन्द्व एकवद्भावः । तेनाढ्यमुप- चितमिति तृतीयेति योगविभागात् समासः । सह राज्ञेति विगृह्य साकल्यव- चने यौगपद्ये वाव्ययीभावः । 'अव्ययभावे चाकाले ।६।३ । ८१ । १ इति सभावः । 'अनश्च' |५|४|१०८।' इति टच् समासान्तः । अँध्वनी- नमध्वानमलंगामीति तं तादृशम् 'अध्वनो यत्खौ |५|२|१६|' 'आत्माध्वानौ खे ६|४|१६९।' इति प्रकृतिभावः ॥ ४९ ॥ विशङ्कटो वक्षसि बाणपाणिः सम्पन्नतालद्वयसः पुरस्तात् । भीष्मो धनुष्मानुपजान्वरत्निरैति स्म रामः पथि जामदग्न्यः ॥ ५० ॥ , विशङ्कटेत्यादि--एवमस्य गच्छतः पथि: मार्गे । सप्तम्यां 'भस्य टेर्लोपः ७|१|८८।' पुरस्तादग्रतः । 'अस्ताति च | ५|३|४० |' इति पूर्वस्य पुरादेशः । रामो जामदग्न्यः । जमदग्नेरपत्यं रामोऽयम् । गर्गादिपाठाद्यत् । स ऐति स्म आगतवान् । आङ्पूर्वादणो लट् । 'एत्येधत्सु |६|१||८९| इतिवृद्धिः । उस विशवक्षसि विशाल: 'वे: शालच्छङ्कटचौ | ५|२|२८|' इति शङ्कटच् । बाणः पाणावस्येति बाणपाणि: । 'प्रहरणार्थेभ्य: परे निष्ठासप्तम्यौ, सप्तम्यन्तस्य परनिपातः । संपन्नो निष्पन्नो यस्तालवृक्षः स प्रमाणं यस्य स तथोक्तः । 'प्रमाणे द्वयसच्दन्नञ्मात्रच: ५ । २ । ३७ ।' भीयते अस्मादिति भीष्मः । 'भियः पुग्वा' इति औणादिको मक्प्रत्ययः । वा षुगागमश्च । 'भीमादयोऽपादाने |३|४|७४ | इत्यपादाने साधु: । धनुष्मान् धनुषा युक्तः । संसर्गे मतुप् । जानुनोः समीपमुपजानु । सामीप्येऽव्ययीभावः । अरनिर्यस्य स तथोक्तः प्रलम्बबाहुरित्यर्थः ॥ ५० ॥ उपजानु उच्चैरसौ राघवमाहतेदं धनुः सवाणं कुरु माऽतियासीः । पराक्रमज्ञः प्रियसन्ततिस्तं नम्रः क्षितीन्द्रोऽनुनिनीपुरूचे ॥ ५१ ॥ १ 'अथ राजकम् । राजन्यकं च नृपतिक्षत्रियाणां गणे क्रमात् ।' इत्यमरः । २ 'हास्तिकं गंजता वृन्दे' इत्यमरः | ३ 'अध्वनीनोऽध्वगोऽध्वन्यः' इत्यमरः । ४ 'विशङ्कटं पृथु बृहत्' इत्यमरः । ५ भयङ्कर इत्यर्थः । 'दारुणं भीषणं भीष्मम्' इत्यमरः ।