1 ( ३२ ) भट्टिकाव्ये जयमङ्गलासमेत- [द्वितीयः- सोऽञ्चितदक्षिणोरुः । अञ्चे: पूजायामितीटोऽनुत्पन्नत्वात् ण्यन्तस्य रूपम् चात्र पूजा गम्यते, किन्तु गतिविशेष एव । अनुषङ्गलोपोऽपि न भवति ि लोपस्य स्थानिवद्भावात् । समन्तात् नंता वामजङ्घा यस्य स सन्नतवामजङ्घः । शुद्धेषुः निशितबाणः । अमन्दमत्यन्त ऋष्टुं शीलमस्यासावमन्दकर्षी । कर्णा- न्ताकृष्टचाप इत्यर्थः ||३१॥ गाधेयदिष्टं विरसं रसन्तं रामोऽपि मायाचणमस्त्रचुञ्चुः । स्थास्नुं रणे स्मेरमुखो जगाद मारीचमुच्चैर्वचनं महाऽर्थम् ॥ ३२ ॥ गाधेयेत्यादि--गाधेरपस्यं गाधेयो विश्वामित्रः । द्वयच इत्यनुवर्तमाने 'इतश्चानिञः | ४|१|१२२|' इति ढक् । तेन दिष्टं कथितं मारीचं नाम राक्षसं रामो जगाद गदितवान् । रसन्तम् वदन्तम् | विरसमश्राव्यमिति क्रियाविशे- षणम् । मायाचणं मायया वित्तम् । अत्रचुञ्ः अस्त्रैः प्रतीतो रामः । तेन वित्त- श्चुच्चुप्चणपौ |५|२|२६|' इति । स्थास्तुं रणे स्थितिशीलम् । तस्य सेनापति - त्वात् । स्मेरमुखः चित्तस्याक्षोभादीषद्धसनशीलवदनः । 'नमिकम्पिस्म्यजसकम् हिंसदीपो रः |३|२|१६७|' इति रः । उच्चैस्तरां जगादेति क्रियाविशेषणम् । वचनं वक्ष्यमाणं महार्थं प्रधानार्थम् । ब्रुविशासीत्यत्र ब्रुवीत्यर्थग्रहणाद्वि- कर्मकता | मारीचं वचनं च ॥३२॥ । a आत्मम्भरिस्त्वं पिशितैर्नराणां फलेग्रहीन् हंसि वनस्पतीनाम् । शौवस्तिकत्वं विभवा न येषां व्रजन्ति तेषां दयसे न कस्मात् ३३ ॥ - आत्मेत्यादि – नराणां पिशितेमौसै: आत्मानं विभषि पुष्णासि । नान्यदपि शरीरस्थितिहेतुर्भवतीति भावः । स त्वमात्मम्भरिः आत्मभरणाय फलानि गृह्णन्ति ये वनस्पतीनां तान् फलेग्रहीन् फलाशिनो मुनीन् हंसि मारयसि । शपो लुक् । 'फहरात्मभरच | ३|२|२६|| इति निपातितौ । श्वो भवितारः शौवस्तिकाः | 'वस्तु च ||४|३|१५|' इति ठञ् तुडागमश्च । द्वारादित्वादैजागमः । शौवस्तिकत्वं तद्येषां विभवा न व्रजन्ति तेषामश्वस्त- निकवृत्तीनां कस्मान्न दयसे न रक्षसि । 'अधीगर्थदयेशां कर्मणि |२|३५२१ इति कर्मणि पष्ठी ॥ ३३ ॥ अझो द्विजान् देवयजीन्निहन्मः कुर्मः पुरं प्रेतनराऽधिवासम् । धर्मो ह्ययं दाशरथे निजो नो नैवाऽध्यकारिष्महि वेदवृत्ते ॥ ३४ ॥ ( उभौ त्वात्मम्भरिः कुक्षिम्भारिः रखोदरपूरके ।' इत्यमरः ।
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/७०
दिखावट