पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रकीर्णकाण्डम् | (३१) - ८ प्रतुष्टुवुरित्यादि — ततो रामवद्यनादनन्तरं तपोधना: कर्म यागक्रियां प्रतु- ष्टुवुः । यथावत् यथाविधि प्रारब्धवन्तः । यज्ञियैः यज्ञकर्मा है: द्रव्यगणः प्रक्लप्तः मिलितैः । ‘ कृपो रो लः |८|२|१८|' दक्षिणामर्हन्तीति दक्षिण्याः महामुनयः । कडङ्करदक्षिणाच्छ च । ५ । १ । ६९ । ' इति चकाराद्यत् । तैर्दिष्टमुक्तम् । कृतमार्त्विजीनैः । ऋत्विक्कमहरनुष्ठितम् । ऋत्विजश्च ब्रह्मादयः षोडश पठिता: तच्च कर्म प्रसर्पत् वृद्धिं गच्छत् । यातुधानै राक्षसैः चिचिते ज्ञातम् । 'चिती संज्ञाने' इत्यस्मात् कर्मणि लिट् | यज्ञियैराविजीनैरिति 'यज्ञविग्भ्यां घखनौ । ५ । १ । ७१ ।” इति तत्कर्मातीति ॥ २९ ॥ आपिङ्गरूक्षोर्ध्वशिरस्यबालैः शिरालजङ्वैगरिकूटनैः ॥ ततः क्षपाऽटैः पृथुपिङ्गलाऽक्षैः खं प्रावृषेण्यैरिव चाऽऽनशेऽब्दैः ॥ ३० ॥ आपिङ्गेत्यादि--ततः कर्मप्रवर्तनादनन्तरम् । क्षपाटै: निशाचरैः । अ- टन्तीत्यटाः पचाद्यच् । क्षपायामटा इति सप्तमीति योगविभागत् समासः । खमाकाशमानशे व्याप्तम् । अश्नोतेः कर्मणि लिट् | अच७४।७२।१ इति नुट् । शिरसि जाताः शिरस्त्या: । 'शरीरावयवाद्यत् ॥५॥१॥६॥ आपिङ्गा आ समन्तात् पिङ्गा विद्युदिव | रूक्षाः सूक्ष्मा: उर्ध्वशिरस्त्या बाला 'येषां तैः अन्योऽपि शिरस्यो भवति इति बालग्रहणम् । अमंगलबाला इत्यर्थः । शिराः सन्ति यासामिति 'प्राणिस्थादातो लजन्यतरस्याम् ॥५॥२॥९६।' इति लच् । शिराला जङ्घा येषां तैः । गिरिकूटदनै गिरिकूटप्रमाणैः । 'प्रमाणे द्वयसच्दघ्न - मात्रचः ।५।२।३७|' इति दनच् । पृथूनि विस्तीर्णानि पिंगलानि चाक्षीणि येषां तैः । ‘बहुव्रीहौ सक्थ्क्ष्णोः स्वाङ्गात्यच् |५|५|११३|' इति षच् । प्रावृषेण्यैरिवेति प्रावृष एण्यः |४|३|१७|' अब्दैर्मेघैः कृष्णसाधर्म्यात् । अपो ददतीति अब्दाः । चकार: पादपूरणार्थः ॥ ३०॥ अधिज्यचापः स्थिरबाहुमुष्टिरुदञ्चिताऽक्षोऽञ्चित दक्षिणोरुः । ताँलक्ष्मणः सन्नतवामजङ्गो जघान शुद्धेपुरमन्दकर्णी ॥ ३१ ॥ अधीत्यादि- तान् क्षपाटान् गगनस्थान् लक्ष्मणो जघान हतवान् | को- दृशः अधिज्यचापः । अध्यारूढा उत्कलिता ज्या गुणो यस्य चापस्य तदवि- ज्यम् । प्रादिभ्यो धातुजस्येति समासः । अधिज्यं चापं यस्य लक्ष्मणस्य | स्थिरो निश्चलो बाहुर्मुष्टिश्च यस्य | उदश्चिते उत्क्षिप्ले अक्षिणी येन स उदश्चि ताक्ष: । आकाशस्थापितदृष्टिरित्यर्थः । अञ्चितः सङ्कोचितो दक्षिणोरुर्येन . १ इदमुपमाद्योतकम् ।