पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(३०) भट्टिकाव्ये जयमङ्गलासमेते- [ द्वितीयः- कौशले । ८ । ३ । ८९ ।। इति षत्वम् । तौ च क्षितिपालपुत्रौ तदासनादि प्रत्यग्रहीष्टां प्रतिगृहीतवन्तौ । प्रतिपूर्वाद् ग्रहे 'ग्रहोऽलिटि दीर्घः । ७ । २ । ३७ ।' इति दीर्घः । षत्वष्टुत्त्रे | मधुपर्कमिश्रम् मधुपर्केण सहेत्यर्थः ॥ २६ ॥ रामलक्ष्मणौ । तसस्ताम् । दैत्याऽभिभूतस्य युवामवोढं मनस्य दोभिर्भुवनस्य भारम् | हवींषि सम्प्रत्यपि रक्षतं तौ तपोधनैरित्यमभाषिषाताम् ॥ २७ ॥ दैत्येत्य: दि --दितरपत्यानि दैत्याः । 'दित्यदत्यादित्यपत्युत्तरपदाण्यः |४ ३ ३ । ८५ ।' इति ण्यः । तैरभिभूतस्य मग्नस्य शरण्यस्य भुवनस्य भारमिति- कर्तव्यतालक्षणं दोर्भिर्भुजैः युवामवोढम् ऊढवन्तौ । नरनारायणौ युवामित्यु - क्तौ । त्वं च त्वं चेति एकशेषः । अवोढमिति वहेर्लुङ् । थसस्तम् | हलन्तल- क्षणा वृद्धिः। सिज्लोपः। 'सहिवहोरोदवर्णस्य | ६ | ३ | ११२ |' इत्योत्वम् |ढत्वष्टु- त्वढलोपाः । दोरिति दमेर्डोसित्यौणादिको डोस् । हवींषि होतव्यानि | सम्प्र- त्यपि रक्षतम् । अर्चिरुचिदुसृपिच्छादिच्छर्दिभ्य इसिरित्यौणादिक इसिः । राक्षसैरुपहन्यमानानि रक्षतम् । प्रार्थनायां लोटू । शप् । थसस्तम् । इत्थमि ति ' इदमस्थमुः । ५ |३| २४ । ' अनेनोक्तप्रकारेण । तपोधनैस्तप एव धनं येषामिति । अभाषिषाताम् अभिहितौ । भाषतेः कर्मणि लुङ् | सिजिटौ ॥ २७॥ तान्प्रत्यवादीदथ राघवोऽपि यथेप्सितं प्रस्तुत कर्म धर्म्यम् । तपोमरुद्भिर्भवतां शराऽग्निः संधुक्ष्यतां नोऽरिसमिन्धनेषु ॥ २८ ॥ तानित्यादि - अथैतस्मिन् प्रस्ताव राघवोऽपि रघुसुतः तान्मुनीन् प्रत्यवादीत् “वद्व्रजहलन्तस्याचः । ७ । २ । ।' इति वृद्धिः । यथेप्सितं यथाभिमतम् । आप्नोतेः ‘आपूज्ञप्यृधामीत् | ७ | ४| ५५ | इतीत्त्वम् अभ्यासलोपश्च । सन्न- कर्मष्ठदनपेतं धर्म्यम् यागादि कर्म । प्रस्तुत प्रारभध्वम् । अपूर्वः स्तौतिः प्रारम्भे वर्तते । तस्मान्निमन्त्रणे नियोगकरणे लोट् । थस्य तः। शपो लुक् | तपांसि मरुत इव तपोमरुद्भिः । भवतां तपोमरुद्भिर्नोऽस्माकम् । बहुवचनस्य वसूनसौ | ८ | १ | २१ ।' इति नसादेशः । शराग्निः शरोऽग्नि- परिव | संधुक्ष्यतां दीप्यताम् । 'धुक्ष, धिक्ष, सन्दीपनक्लेदन जीवनेषु । ' तस्मा- त्कर्मणि लोट् | अरिसमिन्धनेषु अरिकाष्ठेषु । समिध्यते एभिरिति समिन्धना- नि । करणे ल्युट् । अरयः समिन्धनानीव ॥ २८ ॥ - ★ प्रतुष्टुवुः कर्म ततः प्रक्ल तैस्ते यज्ञियैद्रव्यगणैर्यथावत् । दक्षिण्यदिष्टं कृतमार्त्विजीनैस्तद्यातुधानैश्चिचिते प्रसपत् ॥ २९ ॥