पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रकीर्णकाण्डम् । (२९) शिञ्जनं 'जिञ्जा 'गुरोरच हलः | ३|३|१०३|' इत्यकारप्रत्ययः । पतन्तं त्रायन्त इति पतत्राणि पक्षाः । 'आतोऽनुपसर्गे कः | ३|२||३|' । तानि येषां सन्तीति पतत्रिणः । पतङ्गशिजमिति पाठान्तरम् ॥ २४ ॥ क्षुद्रान्न जक्षुर्हरिणान्मृगेन्द्रा विशश्व से पक्षिगणैः समन्तात् । नन्नम्यमानाः फलदित्सयेव चकाशिरे तंत्र लेता विलोलाः ॥२५॥ क्षुद्रानित्यादि -- तत्र तस्मिंस्तपोवने तपोधनानां मित्रभावात् क्षुद्रानि- तरानपि हरिणान्मृगेन्द्राः सिंहाः न जक्षुः । न बाधितवन्तः । क्षुद्यन्त इति क्षुद्राः । स्फायितञ्चीत्यादिना औणादिको रक् । 'लिट्यन्यतरस्याम् ।२।४।४०।१ इति अर्घ । 'गमहनजनखनघसां लोपः ङ्कित्यनाङ ।६।४।९८ । इत्यु- पधालोपः 'खरिच | ८ । ४ । ५५ ।। इति चम् । शासिवसिघसीनां च |८|३|६०।' इति षत्वम् । पक्षिगणैः समन्तात्सर्वत्र विरुद्धैरपि काकोलूका- दिभिः परस्परं विशश्वसे विश्वस्तम् । भावे लिट् | लताश्च विलोलाञ्चपलाश्चका- शिरे शोभन्ते स्म । फलदित्सथैव मुनिभ्यः फलं दातुमिच्छयेव यन्नम्य- माना: अत्यर्थ नमन्त्यः । दातुमिच्छा दित्सा | ददातेः सन् । 'सनि ममाघुरभ- लभशकपतपदामच इस | ७|४||५४|' इति इस् 'अत्र लोपोऽभ्यासस्य |७|४१५८११ इति अभ्यासलोपश्च । 'स: स्यार्धधातुके |७ । ४ । ४९ । ' इति सकारस्य तकारः । ‘अ प्रत्ययात् |३|३|१०२|' इत्यकारप्रत्ययः । फलानां दित्सेति कर्माणि षष्टीं विधाय कुद्योगे समासः । नन्नम्यमाना इति नमेर्यङि 'नुगतोऽनुनासिका - तस्य |७|४|८५|' इति नुक् । यङन्ताच्छानच् | आने मुक् ॥ २५ ॥ 'अपूपुजन्विष्टरपाद्यमाल्यैरातिथ्यनिष्णा वनवासिमुख्याः । प्रत्यग्रहीष्टां मधुपर्कमिश्रं तावासनाऽऽदि क्षितिपालपुत्रौ ॥ २६ ॥ अपूपुजन्नित्यादि-वनवासिमुख्याः महर्षयो विष्टरादिभिः अपूपुजन् पूजि - तवन्तः । तौ क्षितिपालपुत्रावित्यर्थात् द्वितीयान्तेन योज्यम् । वनवासीतिशय- वासवासिष्वकालात् । ६ । ३ । १८ ।” इति विकल्पेन सप्तम्या अलुक् । पूजे: स्वार्थिकण्यन्तस्य णौ चङि ह्रखः । 'दीर्घो लघोः । ७ । ४ । ९४ ।’ इति अभ्यासस्य दीर्घः । विष्टरमासनम् | 'वृक्षासयोर्विष्टरः । ८ । ३ । ९३ । इति निपातनात् । पाद्यं पादार्थमुदकम् । 'पादार्घाभ्यां च । ५ । ४ । २५ ।। इति यत् । तदर्थत्वात्पद्भावाभावः । माल्यानि कुसुमानि । मालायां साधूनि । 'तत्र साधुः । ४ । ४।९८ ।' इति यत् । आतिथ्यनिष्णा: अतिथ्यर्थम् आतिथ्यम् । “ अतिथेः । ५ । ४ । २६ । तत्र निष्णा: कुशलाः । 'निनदीभ्यां स्नाते: