( २८ ) जयमङ्गलासमेते- [ द्वितीयः- शीलम् । जयावहत्वात् । ( लपपतपदस्थाभूवृषहनकमग मशृभ्याउकञ |३|२|१५४|' इति उकञ् । आतो यक् । अत एवामोघम् अवन्ध्यम् I अवृथामोक्षत्वात् । अभ्यर्णो निकटो महाहवो यस्य तस्मै । अभिपूर्वादर्दे- निष्ठायाम्, 'अभेञ्चावि |७|२|२५|' इतीप्रतिषेधः । 'रदाभ्यां निष्ठातो नः पूर्वस्य च दुः ।८।२।४२|| इति नत्वम् । अभ्यर्ण: । आहव इति, आहूयन्ते अस्मिन्युद्धायेति ह्रयतेराङ्पूर्वात् 'आङ युद्धे |३|३|७३ |' इति सम्प्रसारणम् । अप् प्रत्ययः, गुणावादशौ । वधाय क्षणदाचराणामिति, क्षेणदा रात्रिः तत्र चरन्तीति, ‘चरेष्टः ३|२|१६|| इति तेषां रक्षसामित्यर्थः । तत्र हि महाहवे रामो राक्षसान् हनिष्यतीति । 'हनश्च वधः |३|३२|७६ | इति वधादेशः । कृत्प्रयोगे क्षणदाचराणामिति कर्मणि षष्टी । श्रेयसि जागरूकः तत्कल्याणे सावधानः । जागरूकैः ॥ २२ ॥ भट्टिकाव्ये तं विप्रदर्श कृतघातयना यान्तं वने रात्रिचरी डुढौके । जिघांसुवेदं धृतभासुराऽस्वस्तां ताडकाऽऽख्यां निजघान रामः ॥ २३॥ तमित्यादि -- विद्यामस्त्रजातं चादाय यज्ञकर्मणि विघ्नोपशमनार्थ वने यान्तं रामम् रात्रिचरी राक्षसी ताडकाभिधाना डुढौके ढौकते स्म । ढौकते- रात्मनेपदनो लिटि रूपम् । तां च रामो निजघान निहतवान् । विप्रदर्श कृतघातयत्ना विप्रान् ब्राह्मणान् दृष्ट्वा कृतमारणाभियोगा रात्रिचरी । रामोऽपि जिघांसुवेदं धृतभासुराः । जिघांसुं विदित्वा धृतं भासुरं भासनशीलम् अस्त्रं बहुव्रीहिः । विदर्श जिघांसुवेदमिति 'कर्मणि हशिविदोः साकल्ये |३||४||२९|| इति मुल् ॥ २३ ॥ ४ अथाssो हुतधूमकेतु शिखाऽञ्जन स्निग्ध समृद्धशाखम् । तपोवनं प्राध्ययनाऽभिभूत समुच्चरच्चारुपतत्रिशिअम् ॥ २४ ॥ अथेत्यादि -- अथासौ रामो राक्षसीं हत्वा तपोवनम् आलुलोके दृष्टवान् । कथम्भूतम् । हुतधूमकेतुशिखा जनस्निग्धसमृद्धशाखम् । हुतश्चासौ धूमकेतुर - निश्च हुतधूमकेतुः | तस्य शिखाञ्जनेन स्निग्धाः समृद्धाश्च फलादिना शाखा यस्य तपोवनस्य | प्राध्ययनेन वेदपाठेन, अभिभूता तिरस्कृता समुच्चरन्ती चाव शोभना पतत्रिणां पक्षिणां शिञ्जा ध्वनियंत्र | 'शिजि अव्यक्ते शब्दे । ' . १ 'त्रियामा १ क्षणदा क्षपा इत्यमरः । २ यतो विश्वामित्रयज्ञे इत्यर्थः । ३ जागरणपरा हि सावधानो भवतीति दृष्टचरम् । ४ 'अथालुलोच इति पाठान्तरम् ।
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/६६
दिखावट