सामग्री पर जाएँ

पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रकीर्णकाण्डम् । ( २७ ) शीला भिक्षवः परिव्राजका: । 'सनाशंसभिक्ष उः ३ । २ । १६८ । ' तेषां ये प्रधानास्तैः सह । तपःकृशाः तपसा दुर्बलाः । शान्त्यर्थमुदकं तेन पूर्णः कुम्भः । 'एकहलादौ पूरयितव्येऽन्यतरस्याम् । ६ । ३ । ५९ । ' इति उदक- स्य उदभावः। स हस्ते येषामिति बहुव्रीहिः । परनिपातश्चात्र वाहिताग्न्या- - दिदर्शनात् । प्रहरणार्थेभ्य इति वा । शान्त्युदकुम्भस्त्वहित निवारण साधर्म्यात् उपचारेण प्रहरणम् । ते शिरःसूदकदानेन प्राणर्चुः । अन्ये मुनयो यायावरा एकत्रानियतनिलयाः । यातेर्यङन्तात् 'यश्च यङ: ३ । २ । १७६ ।' इति वरच् । अतो लोपादि । पुष्पफलेन प्राणर्चुः पुष्पाणि च फलानि चेति 'जातिरप्राणिनाम् । २ । ४ । ६ । ' इत्येकवद्भावः । अर्ध्या अर्चना: । 'अ कृत्यतृचश्च । ३ । ३ । १६९ ।' अर्चनीयमित्यत्रापि । जगतां जगद्भिर्वा, अर्चनीयम् । ' कृत्यानां कर्तरि वा । २ । ३ । ७१ ।' इति पक्षे षष्ठी । न तु कर्तृकर्मणोः कृति । २ । ३ । ९५ । ' इति षष्ठी ।। २० ।। 6 विद्यामथैनं विजयां जयांच रक्षोगणं क्षिप्नुमविक्षताऽऽत्मा । अध्यापिपदाधिसुतो यथावन्निधातयिष्यन्युधि यातुधानान् ॥ २१ ॥ विद्यामित्यादि — तपोवनं प्राप्तः गाधिसुतः एनं रामम् 'द्वितीयाटौस्स्वेन २ । ४ । ३४ । ' इत्येनादेशः । विद्यां नाम्ना विजयां जयां च । यथावत् यथाविधि । अध्यापिपत् पाठितवान् । ' णौ च संश्चङोः । ६। १ । ३१ ।’ इति गाङभावपक्षे रूपम् । अधिपूर्वादिङो हेतुमण्णिचि 'क्रीङ्जीनां णौ क्षिप्नुं प्रेरयितारम् । न लोकाव्यय- ( 6 ६ । १ । ४८ । ' इत्यात्वम् । पुगादिविधयः । रक्षोगणं । त्रसिगृधिवृषिक्षिपेः क्नुः । ३ । २ । १४० । ' इति क्नु: निष्ठाखलथंतृनाम् । २ । ३ । ६९ ।। इति षष्ठीप्रतिषेधात् द्वितीयैव । अविक्ष- तात्मा रागादिभिरनभिभूतचित्तवृत्तिः । तस्य हि विद्या अमोघा भवति । युधि संग्रामे । यातुधानान् रक्षांसि | निघातयिष्यन् मारयिष्यन् | हन्तेर्हेतुमण्णिच् । घत्वं । ऌट् ऌटः सदादेशः ॥ २१ ॥ आयोधने स्थायुकमस्त्रजातममोघमभ्यर्णमहाऽऽहवाय । , ददौ वधाय क्षणदाचराणां तस्मै मुनिः श्रेयसि जागरूकः ॥ २२ ॥ आयोधन इत्यादि -- स मुनिः तस्मै रामायास्त्रजातम् अस्त्रसमूहं ददौ दत्तवान् । ददातेर्लिट् । णल् 'आत औ णलः । ७ । १ । ३४ ।' आयुध्यन्ते अस्मिन्निति आयोधनं संग्राम: । अधिकरणे ल्युट् । तत्र स्थायुकं स्थितिकरण - १ निराकरिष्णुः क्षिप्नु: स्यात्' इत्यमरः ।