सामग्री पर जाएँ

पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२६) भट्टिकाव्ये जयमङ्गलासमेते- [ द्वितीयः- 6 सितेत्यादि — सितारविन्दानां प्रचयेषु समूहेषु । ' एरच् |३| ३ | ५६ | इत्यच् ‘सङ्घे चानौत्तराधर्ये । ३ । ३ । ४२ । ' इति घञकौ न भवतः प्राणिषुः सङ्घशब्दस्य रूढत्वात् । लीनाः कलहंसमालाः । तथा संसक्तफेनेषु च सैकतेषु पुलिनेषु लीनाः । सिकता येषु विद्यन्त इति । ' देशे लुबिलचौ च । ५ । १ । १०५ ।' इति चकारादण् । कुन्दावदाता : कुन्दमिवावदाताः शुक्लाः । उपमा-- नानि सामान्यवचनैः । २ । १ । ५५ ।। इति समासः । प्रतीयिरे ज्ञाताः । तेन रामेणेति विभक्तिविपरिणामेन सम्बन्धः । कर्मणि लिट् । ' इणो यण् । ६ । ४ । ८१ ।' इति यण् । द्विर्वचनेऽचि । १ । १ । ५९ ।' इति स्थानिवद्भा. वाद्विवचनम् । श्रोत्रसुखमेधुरैनिनादैः करणभूतैः ।' नौ गदनदपठस्वन: ३ । ३ । ६४ । ' इति घञ् ॥ १८ ॥ शरद्वर्णनमुपसंहरन्नाह न तज्जलं यन्न सुचारुपङ्कजं न पङ्कजं तद्यदलीनपट्पदम् । न षट्पदोऽसौ न जुगुञ्ज यः कलं न गुञ्जितं तन्न जहार यन्मनः ॥ १९ ॥ न तज्जलमित्यादि--किम्बहुनोक्तेन सर्वथा न तज्जलं यत् सुचारुपङ्कजं न बभूव । पङ्कजमपि यदलीनपट्पदं तदपि न । असौ षट्पदोऽपि तथाविधो नाभूत् । यः कलं मधुरं न जुगुञ्ज न गुञ्जितवान् । गुजि अव्यक्त शब्दे ।' 'इदितो नुम् धातोः । ७ । १ । ५८ ।' इति नुमि लिटि रूपम् । गुञ्जितमपि तत् नैवासीत् । यन्मनो न जहार न हृतवत् | रामस्य लोकस्य वो ॥ १९ ॥ 6 ★ तं यायजूका: सह भिक्षुमुख्यै तपः कृशाः शान्त्युदकुम्भहस्ताः । यायावराः पुष्पफलेन चाऽन्ये प्राणचुरर्या जगदर्चनीयम् ॥ २० ॥ तमित्यादि - - यायजूकाः, अत्यर्थं यजनशीलाः । 'यजजपदशां यङः २। १६६ । ' इत्यूकः । 'अतो लोपः । ६ । ४ । ४८ ।' 'यस्य हलः । ६ । ४ । ४९ । ' ते तपोवनस्थितास्तं राममागच्छन्तमानचु: सुष्ठु पूजित - वन्तः । अर्चेर्लिंटि द्विर्वचनम् । अत आदेः । ७ । ४ । ७० ।” इति दीर्घत्वम् । तस्मन्नुड् द्विहलः । ७।४ । ७१ ।' इति नुट् । सह भिक्षुमुख्यै : । भिक्षण- ३ । १ अत्र वंशस्थविलं छन्दः तल्लक्षणं चोक्तं प्राकू । एकावल्यलङ्कारश्च 'स्याप्यते sपोह्यते वाऽपि यथापूर्व परं परम् । विशेषणतया वस्तु यत्र सैकावली द्विधा । इति तल्लक्षणात् । प्रकृते पुनराद्योत विशेषः । २ भिक्षुः परिव्राट् कर्म्मन्दी पाराशर्थ्यपि मस्करी ।' इत्यमरः । 6