पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रकीर्णकाण्डम् । ( २५ ) स्त्रीभूषणं चेष्टितम प्रगल्भं चारूण्यवक्राण्यपि वीक्षितानि । ऋजूंश्च विश्वासकृतः स्वभावान् गोपाऽङ्गनानां मुमुदे विलोक्य १५ स्त्रीभूषणमित्यादि – गोपाङ्गनानां चेष्टितं गमनागमनादि । अप्रगल्भं लज्जावत् । तच्च स्त्रीभूषणं त्रीणामलङ्कारः तथा वीक्षितानि विलोकितानि अवक्राण्यपि कटाक्षादिरहितान्यपि चारूणि शोभनानि । स्वभावान् स्वाभि- प्रायान् ऋरून् अकुटिलान् विश्वासकृतो विश्वासस्य जनकान् विलोक्य मुमुद् हृष्टवान् । स रामैः । लिटोऽपित्त्वात्कित्त्वे गुणाभावः । कार्याणां दर्शनात् स्व- भावानां दर्शनमित्युक्तम् ।। १५ ।। विवृत्तपार्श्व रुचिराऽङ्गहार समुद्रहबारुनितम्बरम्यम् । आमन्द्र मन्थध्वानदत्ततालं गोपाङ्गनानृत्यमनन्दयत्तम् ॥ १६ ॥ विवृत्तेत्यादि-गोपाङ्गनानां दुधिमन्थनाय यत् स्थानं कृतं तत् नृत्यमिवैति गोपाङ्गनानृत्यं कर्तृ तं रामम् अनन्दयत् सन्तोषितवत् । नन्देर्ण्यन्तस्य लडि रूपम् । विवृत्ते तिर्यक् चलिते पार्श्वे यत्र नृत्ये । रुचिरः शोभनोऽङ्गहारोऽङ्ग- विक्षेपो यत्र । समुद्वहता तिर्यक् समुद्रच्छता चारुनितम्बेन कटिभागेन रम्यं मनोहरम् । आमन्द्र ईषद्गम्भीरो यो मन्थकृतो ध्वनिः तेन दत्तस्तालो यत्र ॥ १६ ॥ विचित्रमुच्चैः प्लवमानमारात् कुतूहलं त्रस्नु ततान तस्य | मेघाऽत्ययोपात्तवनोपशोभं कदम्बकं वातमजं मृगाणाम् ॥ १७ ॥ विचित्रमित्याद्--मृगाणां कदम्बकं वृन्दं तस्य रामस्य कौतूहलं ततान विस्तृतवत् । विचित्रम् कृष्णश्वेतत्वात् । उच्चैः लवमानम् ऊर्ध्व जिहानम् । आरात् समीपे । त्रस्नु त्रसनशीलम् । 'त्रसिगृधिवृषिक्षिपः क्तुः | ३|२|१४० | इति क्नुः । मेघाल्ययेन मेवापगमेन उपात्तवनोपशोभम् । उपात्तं गृहीतं वनम् उपशोभा च येनेति व्यधिकरणबहुव्रीहिः । वातमजति वातमजम् । वाताभि- मुख गच्छतीत्यथः । 'वातशु नीतिलशर्घेण्व जजहातिभ्य खश्' इति खश् । अरुद्विषद्जन्तस्य मुम् | ६|३|६७ |' इति मुम् || १७ ॥ सिताइरविन्दप्रचयेषु लीनाः संसक्कफेनेषु च सैकतेषु || कुन्दाऽवदाताः कलहंसमालाः प्रतीयिरे श्रोत्रसुखैनिनादैः ॥ १८ ॥ १ इदं प्रकृतानुप्रसक्तम् । २ उत्प्रेक्षा ध्वन्यते । ३ अत्र गम्योपमा ।