पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२४ ) भट्टिकाव्ये जयमङ्गलासमेते- [ द्वितीयः ग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च | ३|२||५९| इति क्विप् | अनुषंगलोपः । नपुंसकस्य नुम् । भानोरिव तजांसि भुवि संभृतानि पिण्डीकृतानि । गभ- स्तिभि; रश्मिभिः धाराभिरिव द्रुतानि गलितानि । धारा प्रपात इति भिदा पाठाद्रष्टव्यम् ।। १२ ।। दिग्व्यापिनीलचनलोभनीयासृजाऽन्वयाः स्नेहमिव स्रवन्तीः । ऋज्वाऽऽयताः सस्यविशेषपङ्गीस्तुतोष पश्यन्वितृणाऽन्तरालाः ॥१३॥ - पश्यंस्तुतोष दिग्व्यापीत्यादि — सस्यविशेषाणां शाल्यादीनां पङ्क्ती: •तुष्टवान् | दिग्व्यापिनी: सर्वादिग्व्यापनशीलाः । लोभयन्तीति लोभनीयाः । - बहुलवचनात्कर्तर्यनीयः । लोचनानां लोभनीया इति षष्ठीससास: । मार्जनं मृजा शुद्धिः । 'षिद्भिदादिभ्योऽङ् | ३ | ३ | १०४ ।' तया, अन्वयोऽनुगमो यासां शुद्धधनुगंता इत्यर्थः । ततः स्नेहमिव स्रवन्तीः | ऋजवश्च ता आय- ताश्च वितृणान्तरालाः उत्पाटितानि तृणानि अन्तराले मध्यभागे यासां तोः ॥ १३ ॥ वियोग दुःखाऽनुभवाऽनभिज्ञैः काल नृपांशं विहितं ददद्भिः | आहार्यशोभारहितैरमायैरैक्षिष्ट पुम्भिः प्रचितान्स गोष्ठान् ॥ १४ ॥ वियोगेत्यादि - पुम्भि: गोपैः प्रचितान् व्याप्तान् गोष्ठान् गावस्तिष्ठन्ति येष्विति 'सुपि स्थः । ३ । २ । ४ ।। इति कः अम्बाम्ब - । ८।३।९७ ।। इत्यादिना मूर्धन्यः । तान् स राम ऐक्षिष्ट दृष्टवान् । अनुदात्तेत्त्वात्तङ् । इट् । वियो- गदुःखस्य योऽनुभवः अनुभवनं तस्यानभिज्ञैः तेषां पुत्रदारैः सहैव सर्वत्र गम- नात् एतावता कालेन एतावदेयमिति विहितं कृतम् । 'दधातेर्हिः' । नृपाशं करं ददद्भिः । आहार्या कटकादिभिः आहरणीया शोभा दीप्तिः तथा रहितैः । असायैः ऋजुभिः । आहार्येति, 'ऋहलोर्ण्यत् । ३ | १ | १२४ । इति ण्यत् शोभयतीति शोभा पचाद्यच् | ‘ण्यासश्रन्थो युच् । ३ । ३ । १०७ ।” इति युच् न भवति,तस्य स्त्रीलिङ्गे भावे अकर्तरि च कारके विधानात् । नन्द्यादि- पाठात् ल्युर्न भवति, तस्य 'वासरूपोऽलियाम् । ३१ । ९४ ।' इति विक- ल्पितत्त्रात् । अथवा शोभनं शोभा स्त्रीलिंगे भावे घञ् । ' 'कृयल्युटो बहु- लम् । ३ । ३ । १३१ ।' इति बहुलवचनादन्येऽपि कृतः प्राप्तमपि स्वाभिधेयं व्यभिचरन्ति ॥ १४ ॥ अत्र विषये सप्तमी ।