पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] 3 प्रकीर्णकाण्डम् । (३३) अझ इत्यादि - - राक्षसः प्राह । द्विजान् ब्राह्मणक्षत्रियवैश्याम् अद्मो भक्षयामः देवयजीन् देवान् यजन्ति आराधयन्ति ये तान्निहन्मः । 'अच इः' इत्यनुवर्तमाने खनीत्यादिषूह्यमानेष्वौणादिकेषु सूत्रेषु यद्यपि यजिर्न पठितस्तथापि प्रकृतेश्च तदूह्यमिति वचनात् । 'जासिनिग्रहणनाटक्राथपिषां हिंसायाम् |२|| ३ ||५६ |' इत्यत्र सङ्घातविगृहीतविपर्यस्तग्रहणात् षष्ठी प्राप्तापि न भवति । कर्मणः शेषत्वेनाविवक्षितत्वात् । पुरं नगरं प्रेतनराणां मृतनराणाम् । अधिवा- समवस्थानं कुर्मः । नित्यहननेन श्मशानतुल्यमित्यर्थः । कस्मादेवमित्यत आह् - धर्म इति । दशरथस्यापत्यं दाशरथिः । 'अत इञ् ||४|१|९५|' इतञ् । हे दाशरथे । हि यस्मादर्थे वर्तते । यस्मादयं धर्म: आचार: | निजो नित्यः । न इत्य- स्माकम् | वेदविरुद्ध इति चेत् - नैवाध्यकारिष्महि वेदवृत्ते । वेदविहितं वृत्त- मिति मध्यमपदलोपी समासः । यद् ब्राह्मणानामुक्तमनुष्ठानं तत्र वयं नैवा- कृता इत्यर्थः । अधिपूर्वात्करोतेः कर्मणि लुङ् । 'स्यसिचसीयुत्तासिषु भावक- र्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वादि च |६||४|६२ | इति चिण्व |॥ ३४॥ धर्मोऽस्ति सत्यं तव राक्षसाऽयमन्यो व्यतिस्ते तु ममापि धर्मः । ब्रह्मद्विषस्ते प्रणिहन्मि येन राजन्यवृत्तिर्घृतकार्मुकेषुः ॥ ३५ ॥ 6 धर्म इत्यादि - - रामः प्राह । हे राक्षस । रक्ष एवं राक्षसः । प्रज्ञादित्वादण् । स्वार्थिका अतिवर्तन्त इति पुँल्लिंगता । तवायं पूर्वोक्तः पराभिद्रोहलक्षणो धर्मो- ऽस्तीति सत्यमेतत् । किन्तु ममापि रामस्य अन्यो धर्मोऽशिष्टनिग्रहलक्षणो व्यतिस्ते व्यतिभवते । इदमुक्तं भवति - यद्यप्येवंप्रकारस्त्वद्धर्मो भविष्यति तथापीदानीमेव या त्वद्धर्मेण विद्यमानतया निष्पाद्या सा अस्मद्धर्मेणैव निष्पा- दकत्वेन व्यतिस्तै । ततश्चान्यसम्बन्धिनीं क्रियामन्यः करोति इतरसम्बन्धिनी- मितर इति धर्मव्यतिहारसम्भवात् । अस्तेः 'कर्तरि कर्मव्यतिहारे |१|३|१४|१ तङ । तथा हि यो यदवसरे यां कांचित् क्रियां करोति स तक्रियाकारीत्युपचा- राल्लोक उच्यते । येन धर्मेण हेतुना ब्रह्माद्विपश्ते प्रणिहन्मि मारयामि स व्यति- स्ते इति योज्यम् । ‘नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्साति- वपतिवहतिशाम्यतिचिनोतिदेग्धिषु च |८|४|१७ ।। इति णत्वम्। 'जासि- निग्रहणनाटक्राथपिषां हिंसायाम् - २ । ३ । ५६ । ' इति कर्मणि पष्ठी । तथा कथं तव धर्म इति चेदाह - राजन्यवृत्तिरिति । क्षत्रियवृत्तिः ततो राज्ञोऽपत्यम । 'राजश्वशुराद्यत् ||४|१|१३७ |' इति यत् 'ये च । ६ । ४ । १६८।' इति प्रकृति- ३