(२०) भट्टिकाव्ये जयमङ्गलासमेते- [ द्वितीयः - पारिभाषिकाः । तथा सरसां तडागानां नदीनां गङ्गादीनां तेजस्विनां चन्द्रतारा- दीनां कान्ति नैर्मल्यं बिभ्रतां दिशां च । तदा हि निर्मला दिशो भवन्ति । वनस्पत्यादीनां श्रियं दधानां शरदं ददर्श ॥ १ ॥ तां रामव्यापारं विना सामान्येन वर्णयन्नाह - तरङ्गसङ्गाच्चपलैः पलाशैवलाश्रियं साऽतिशयां दधन्ति । सधूमदीप्ताऽग्निरुचीनि रेजुस्ताम्रोत्पलान्याकुलषट्पदानि ॥ २ ॥ - तरङ्गेत्यादि - तरङ्गसङ्गात् सलिलोर्मिसम्पर्काच्चपलै: चञ्चलैः पलाशैः पत्रैः ज्वालाश्रियं सातिशयां दधन्ति । सधूमदीप्ताग्निरुचीनि सधूमदीप्ताग्नेरिव रुचि - र्येषां रक्तोत्पलानां तानि रेजुः दीप्यन्ते स्म । राजेलिंटि 'फणां च सप्तानाम् ६ । ४ । १२५ ।' इति एत्वाभ्यासलोपौ । आकुलाः इतस्ततो यायिनः षट्प- दा येष्विति । चलितपत्राणामग्निशिखातुल्यत्वात् षट्पदानां च धूमतुल्यत्वात् सधूमदीप्ताग्निरुचीनीत्युक्तम् ॥ २ ॥ बिम्बाऽऽगतैस्तीरवनैः समृद्धिं निजां विलोक्यापहृतां पयोभिः । कूलानि साऽमर्पतयेव तेनु: सरोजलक्ष्मी स्थलपद्महासैः ॥ ३ ॥ बिम्बेत्यादि-बिम्बं प्रतिबिम्बं तेनागतैर्निपतितैरिति, तृतीयेति योगवि भागात् समासः । तीरवनैः कुसुमितैरित्यर्थात् । तैः करणभूतैः । पयोभिः कर्तृ- भिः समृद्धिं विभूतिं निजामात्मीयाम् अपहृतां विलोक्य कूलानि कर्तृभूतानि सामर्वतयेव साक्षमतयेव सरोजलक्ष्मी कमलशोभां पयः सम्बन्धिनीं तेनुः विस्ता रितवन्ति । अत एकहलमध्येऽनादेशादोर्लटि ६|४|१२०|' इत्येत्वाभ्यासलोपौ ॥ कूले सरोजासम्भव इति चंदाह-स्थल पद्महा सैरिति स्थलकमलविका सौरित्यर्थः ॥ ३ ॥ - निशातुषारैर्नयनाऽम्बुकल्पैः पत्रान्तपर्यागलदच्छबिन्दुः । उपारुरोदेव नदत्पतङ्गः कुमुद्वतीं तीरतरुदिनाऽऽदौ ॥ ४ ॥ निशेत्यादि - निशायां तुषारैः हिमैः । नयनाम्बुकल्पै: अश्रुतुल्यैः | नयना - नुकारिपु पत्रेषु स्थितत्वात् । तैर्हेतुभूतैः पत्रान्तपर्यागलदच्छविन्दुः । पत्रान्ता- त्पर्यागलन्तः अच्छास्तुषारविन्दवो यस्य तीरतरो: । स दिनादौ दिनारम्भे कुमुद्वतीमुपारुरोदेव आनन्दितवानिव भाति शशिवियोगादीदृशी त्वं भूता- सीति । रोदनक्रियया आक्रन्दनविशिष्टया कुमुद्वत्या ईप्सिततमत्वात् रुदिः सक- मकः । तदाक्रन्दनं योजयन्नाह -- नदुत्पतंग इति कूजत्पक्षीत्यर्थः । 'पतेरंगच
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५८
दिखावट