पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रकीर्णकाण्डम् । (२१) पक्षिणि' इत्यौणादिकः । कुमद्वती 'कुमुदनडवेतसेभ्यो ड्मतुप् ।४।२।८७|' इति ड्मतुप् । 'झयः |८|२|१०|' इति वत्वम् । उगित्त्वात् ङीषू ॥ ४ ॥ वनानि तोयानि च नेत्रकल्पैः पुष्पैः सरोजैश्च निलीनभृङ्गैः । परस्परां विस्मयवन्ति लक्ष्मीमालोकयाञ्चकुरिवाऽऽदरेण ॥ ५ ॥ वनानीत्यादि - वनानि पुष्पैनिलीनभृङ्गः स्थितभ्रमरैः । लीयतेः 'स्वाद्य ओदितः ।२।८।४५।' इति निष्ठानत्वम् । नेत्रकल्पैः नेत्रतुल्यैः । तोयानि च • सरोजै: निलीनभृङ्गैत्रकल्पैः । विस्मयवन्ति जातविस्मयानि । परस्परामन्यो- न्यस्य लक्ष्मी शोभाम् आलोकयाञ्चकुरिव | आदरेण तात्पर्येण ॥ ५ ॥ प्रभातवाताऽऽहतिकम्पिताऽऽकृतिः कुमुद्रतीरेणुपिशङ्गविग्रहम् । निरास भृङ्गं कुपितेव पद्मिनीन मानिनी संसहतेऽन्यसङ्गमम् ॥ ६॥ प्रभाते त्यदि- प्रभाते यो वातस्तस्याघातेन कम्पिता चालिता आकृति -राकारो यस्याः पद्मिन्याः सा भृङ्गै निरास निरस्तवती । कुमुद्रतीरेणुना पिशङ्गः कपिशः विग्रहो यस्य भृङ्गस्य । कुपितेव । यथा अन्यया स्त्रिया सहोषितं तद्ङ्गसंक्रान्तपरिमलकण्ठमालमात्मदयितं काचित् कुपिता निरस्यति तद्वत् । सा किमिति निरस्यति -- यतो मानिनी मानवती अन्यसंगमम् अन्यया सह संग मं -न सहते । आत्मसंगादन्यसंगमं न संसहते न क्षमते ॥ ६ ॥ दत्ताऽवधानं मधुलेहिगीतौ प्रशान्तचेष्टं हरिणं जिघांसुः । आकर्णयन्नुत्सुक हंसनादान लक्ष्ये समाधिन दंधे मृगावित् ॥ ७ ॥ दत्तेत्यादि-मधुलेहिगीताविति मधु लेढुं शीलमेषामिति णिनिः । मधुलेगी- ताविति पाठान्तरम्, तत्र लिहन्तीति लेहा: पचाद्यच् । मधुनो लेहा इति षष्ठीस- ● मासः । मधु लिहंन्तीति वा कर्मण्यण् । दत्तावधानं दत्तमानसं हरिणं प्रशान्त- चेष्टं जिघांसुः हन्तुमिच्छुरपि मृगावित् व्याधः । मृगान्विध्यतीति क्विप् । ग्रहि- ज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिते च ६ | १ | १६ |' इतिसम्प्र- १ अत्र पतङ्गानां नाद एवोपारोदनमिति बोध्यम् । दिनादावित्यनेन 'पतङ्गौ पक्षिसूर्यौ च' इत्यमरोक्त्या पक्षिसूर्योभयवाचकपतङ्गशब्दन्यासेन च तरितरोः पतङ्गनदनमेवोपारोदनमिव जातमिति तु सूच्यत एव, किंतु सूर्यो- तीप्राप्य यथा रोदिति तथा तेन समं तां प्राप्तुमिच्छन्नपि देशभेदेनाप्राप्य रुदि- तवानिव तथा प्रतीयत इत्यपि ध्वन्यते । २ अत्र सहोक्तिरभिव्यज्यते, समुन चय उत्प्रेक्षा चालङ्कारौ | ३ अत्र वंशस्थविलं छन्दः 'बदन्ति वशस्थविलं जतौ जरो इति तल्लक्षणात् ।