पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रकीर्णकाण्डम् | अथ जगदुरनीचैराशिषस्तस्य विप्रा - स्तुमुलकलनिनादं तूर्यमाजघ्नुरन्ये । अभिमतफलशंसी चारु पुस्फोर बाहु- स्तरुषु चुकुवुरुच्चैः पक्षिणश्चांऽनुकूलाः ॥ २७ ॥ 4 (१९) अथेत्यादि-तस्य रामस्य व्रजतो विप्रा अनीचैर्महता ध्वनिनाऽऽशिष इष्टव- चनानि जगदुर्गदितवन्तः । अन्ये वादकास्तूर्य कांस्यतालपटहादिसमूहमाजघ्नु- स्ताडितवन्तः । 'आङो यमनः | १ | ३ | २८ ।' इत्यात्मनेपदं न भवति । अकर्मकांदित्यनुवर्तते । तुमुलो महान्कलो मधुरो निनादो ध्वनिर्यस्येति । अभिमतामष्टं फलं शंसितुं शलिं यस्य बाहो: स चारु पुस्फोर सुतरां स्फुरित- वान् । अत्र दक्षिणो बाहु: सामर्थ्याद्गम्यते स्वाङ्गत्वात् । अनेन सीताप्राप्तिबी- जमुपन्यस्तम् । स्फुरतेरभ्यासस्य ' शर्पूर्वाः खयः । ७ ।४ । ६१ ।' इति खयः शेषः । चर्त्वम् । पक्षिणश्च तरुषु स्थिता अनुकूला: सन्त उच्चैः सुण्ठु चुकुवुः कूजितवन्तः । 'कु शब्दे ' इत्यस्य लिट: कित्त्वादुङादेशेः । २७ ॥ इति श्री जयमङ्गलविरचितया जयमङ्गलाSSख्यया व्याख्याया समलंकृते श्री भट्टप्रणीते रामचरिते काव्ये प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे प्रथमो वर्गः । लक्ष्य-रूपे कथानके श्रीराम-संभवो नाम सर्गश्च । द्वितीयः सर्गः । इदानीं विजिगीषूणां कण्टकान् समुद्धर्तुं शरत्काल समुयोग इति तमेव वर्णयन्नाह - वैनस्पतीनां सरसां नदीनां तेजस्विनां कान्तिभृतां दिशां च । निर्याय तस्याः स पुरः समन्ताच्छ्रियं दधानां शरदं ददर्श ॥ १ ॥ वनस्पतीनामित्यादि-स रामः । तस्याः प्रसिद्धायाः प्रकृतायाञ्च पुरः अयोध्या निर्याय निर्गत्य | समन्तात् सर्वतः शरदं ददर्श दृष्टवान् । कालस्याप्रत्यक्षत्वात् कार्याणां दर्शनात्तदर्शन मिति मन्यते । श्रियं दधानां धारयन्तीम् । केषां श्रियम्- बनस्पतीनाम् । पारस्करादिदर्शनात् सुट् । अत्र लोकप्रतीत्या वृक्षां द्रष्टव्याः । न तु १ एवं च शुभान्तरमपि भावीति सूचितम् | २ सर्गेऽस्मिन् प्राय उपजातिश्छन्दः, तल्लक्षणं चोक्तं प्राक् | ३ सर्वे वृक्षा इत्यर्थः । न तु वृक्षविशेषा इत्यभिप्रायः । एतेन 'वानस्पत्यः फलैः पुष्पात् तैरपुष्पाद्वनस्पतिः । ' इति पारिभाषिकाणां वृक्षविशेषाणां व्यवच्छेदः ।