( १८ ) भट्टिकाव्ये जयमङ्गलासमेते- [ आद्यः श्रेयसि कल्याणे। 'प्रकृत्यैकाच् ||६|४|१६३|| प्रशस्यस्य श्रः |५|३|६०।' इति श्रः लक्ष्मीरित्यौणादिकः । लक्षेर्मुट् ईप्रत्ययश्च | सा यस्य विद्यत इति लक्ष्मणः । लोमादिषु 'लक्ष्म्या अच्च' इति न प्रत्ययः अत्त्वं च ।। २५ ।। इषुमति रघुसिंहे दन्दशकाञ् जिघांसौ मुष्टिपीडं धनुरारभिरसह्यं व्रजति पुरतरुण्यो दधाने । बद्धचित्राऽङ्गुलित्रे कथमपि गुरुशोकान मा रुदन् माङ्गलिक्यः ॥ २६ ॥ इषुमतीत्यादि-- रघुसिंहे रामे रघुषु रघुवंशभवेषु सिंह इव शौर्यादि- योगात् । व्रजति सति । इपुमति सनिषङ्गे । प्रशंसायां मतुप् | तदुक्तं कौमुद्यां 'भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने । संसर्गेऽस्तिविवक्षायां भवन्ति म तुबादयः । ' इति दन्दशूकान् हिंस्रान् । दंशे 'लुपसदचरजपजभदहदशगृभ्यो भावगर्हायाम् ||३|१|२४|' इति यङ् । 'जपजभद्हदशभञ्जपशां च' इत्यभ्या- सस्य नुक् । तदन्तात् 'यजजपदशां यङः |३|२|१६६।' इत्यकः । 'अतो लोपः |६|४|४८।' इत्यतो लोप: 'यस्य हलः । ६ । ४ । ४९।' । इति यलोपः । जिघांसौ हन्तुमिच्छौ । 'अज्झन गमां सनि | ६|४|१६|' इति दीर्घः | 'अभ्यासाञ्च गमांसनि |७|३|५५|' इति कुत्वम् 'सनाशंस मिक्षः | ३|२|१६८|' इति उः । 'न लोकाव्ययनिष्ठाखलर्थतनाम् | २|३|६९| इति पष्ठीप्रतिषेधात् द्वितीयैव । धनुर्दधाने बिभ्राणे अरिभिरसां सोडुमशक्यम् । 'शसिहो । ३१११९९ इति यत् । मुष्टिपीडं मुष्टिना पीडयित्वा । मुष्टिशब्दे तृतीयान्ते उपपदे 'सप्तम्यां चोपपीडरुधकर्षः ।३।४।४९ | इति णमुल्लू । तत्र चकारेण तृतीयानुकर्षणात् । बद्धं चित्रमङ्गुलित्रं येन । अंगुलिं त्रायत इति कः । पुरे तरुण्यः पुरतरुण्यः । 'नञ्स्नीक कुख्युंस्तरुण तलुनानामुपसङ्ख्यानम् इति ङीप् | यदि तद्वचोs- र्थवत् । नो चेद्द्रौरादिपाठात् ङोप् । रामो गत इति गुरुः शोको रुदन् न रुदितवत्यः । रुदेः 'इरितो मंगलप्रयोजनाः । यासां ताः । कथमपि मा वा |३|१||५७|' इति च्लेरङ् । यतो माङ्गलिक्य: तदस्येत्यनुवृत्तौ 'प्रयोजनम् | ५ | १ | १०९ |' इति ठञ् ' टिड्ढाणिञ्यसज्दन्नन्ञ् मात्रच्तय प्ठकूठञ् कञ्करपः । ४ । १ । १५ ।' इति ङीप् ॥ २६ ॥ अररिंश्च पद्ये मालिनी वृत्तम् । (ननमयययुतेयम्मालिनी भोगिलोक्तैः ।) इति तल्लक्षणात् ।
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५६
दिखावट