सर्गः ] प्रकीर्णकाण्डम् | (१७) आशीर्भिरित्यादि - रामगमनस्यानुज्ञातत्वात् प्रीतो मुनिः क्षितीन्द्रं राजान- मांशीर्भिरभ्यर्च्य पूजयित्वा । आङः शासेः क्विप्युपसंख्यानात् उपधाया इत्वम् । प्रतस्थे पुनराश्रमाय-आश्रमं पुनः प्रस्थितवान् । तिष्ठतेः । 'समवप्रविभ्यः स्थः |१|३|२२|' इति लिटि तङ् । प्रष्टम् अग्रयायिनं तं 'प्रष्टोऽप्रगामिनि । ८१३९२ इति षत्वम् । पृष्ठतः पश्चात् इयाय कुमारः । इणो णलि वृद्धिरायादेश: 'द्विर्व- चनेऽचि ।१।१।५९।' इति स्थानिवद्भावाद् द्विर्वचनमिकारस्य । 'अभ्यासस्या - सवर्णे ।६।४।७८।' इतीयङ् | नम्रोऽनुकूलः । हिंसनशीला इषवः शरा: हिंस्रे- पवः । आप्तमविसंवादि यद्धनुस्तत् । हिंस्रेषु दीप्तमाप्तं धनुर्यस्य कुमारस्येति विग्रहः । अत्र ‘धनुषश्च | ५|४|१३२|' इत्यनङ् न भवति 'समासान्तविधिर- नित्यः' इति । दीप्रास्त्रधनुरिति पाठान्तरम् । दीप्रमस्त्रं धृष्टतया यस्य धनुष- स्तद्दीप्रास्त्रं धनुर्यस्येति सः कस्मिन्विषये हिंस्रेषु नान्येषु । नम्रादयो नमि- कम्पिस्म्यजसकमहिंसदीपो रः |३|२|१६७।' इति रप्रत्ययान्ताः ॥ २४ ॥ प्रयास्यतः पुण्यवनाय जिष्णो रामस्य रोचिष्णुमुखस्य धृष्णुः | त्रैमातुरः कृत्स्नजिताऽस्वशस्त्रः सध्यङ् रतः श्रेयसि लक्ष्मणोऽभूत् २५ प्रयास्यत इत्यादि -- प्रयास्यतो गमिष्यतो रामस्य लक्ष्मणः सध्यंङ् अभूत् सहायीभूतः । 'सहाञ्चति इति क्विन् अनुषङ्गलोप:' ' उगिदचां सर्वनामस्थाने धातोः।७।१।७० । इति नुम् । हल्ङयादिसंयोगान्तलोपौ 'क्विन्प्रत्ययस्य कुः।८।२ ६२।' इति कुत्वम् नकारस्य ङकार: । 'सहस्य सधिः |६|३|५|| इति सध्या- देशः । पुण्यवनाय पुण्यहेतुत्वात्पुण्यं वनम् । गत्यर्थात् कर्मणि चतुर्थी जिंष्णोः जयशीलस्ये 'ग्ला-जि-स्थश्चरस्तुः | ३|२|१३९|| इति ग्स्नुः । रोचिंष्णु रोचन- शीलं मुखं यस्य तस्य रामस्य पितुराज्ञया तुष्टत्वात् । अलंकृन्निराकृञ्प्रजनो- त्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर इष्णुच् |३|२|१३६|' इतीष्णुच् | धृष्णुः शत्रुविध्वंसने प्रगल्भः । 'त्रसिगृधिषृषिक्षिपेः क्नुः | ३|२|१४०|| इति क्नुः । त्रैमातुर : तिसृणां मातॄणामप यामिति तद्धितार्थविषये समासः । पश्चात् 'मातुरुत्स- ङ्ख्यासम्भद्रपूर्वा याः ॥ ४ ॥ १।११५|' इत्यण् उत्वं च । 'द्विगोर्लंगनपत्ये |४|११८८।' इति लुक् न भवति । स हि पिण्डद्वयप्राशनात्ताभ्यां च जनितः अस्त्रं च शस्त्रं चेति द्वन्द्वः । कृत्स्नं समग्र जितमधिगतमस्त्रशस्त्रं येनेति विग्रहः । रतः १ ' यः सहाञ्चति सध्यङ् सः' इत्यमरः | २ जेता जिष्णुश्च जित्वरः' इत्यमरः । ३ 'विभ्राडू आजिष्णुरोचिष्णू' इत्यमरः । ४ ‘दृष्टे धृष्णुर्वियातश्च , इत्यमरः । ५ अत्यन्तमासक्तचता इत्यभिप्रायः ।
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५५
दिखावट