पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १६) भट्टिकाव्ये जयमङ्गलासमेते- [ आद्यः तत्र येन स्थायिष्यते तेन घानिष्यत इति योज्यम् । अत्र तिष्ठतेर्भावे लट् । चिण्वदिड्वा । 'आतो युक् |७|३|३३ || इति युक् हे महात्मन् महासत्त्व मा मां परिभूर्मावज्ञासीः । किमेवं वदसीति । परिपूर्वी भवतिर्निराकरणे वर्तते मद्विध इति विधानं विधा प्रकार: 'आतचोपसर्गे |३|३|१९०६।' इत्यङ् | विधा भेदः सादृश्यं च । इह सादृश्यं गृह्यते मया विधा सादृश्यं यस्येति मद्विधः । 'प्रत्ययोत्तर पदयोश्च ७ । २ । ९८ ।। इति मदादेशः । मद्विधो मत्स - दृशोऽन्यो न भारमग्र्यम् 'अप्राद्यत् । ४ । ४ । ११६ ।' अयोग्ये असमर्थे न्यस्यति निक्षिपति । किमहं येनानागतं समीक्षितमिति भावः । योगाय प्रभवति योग्यः 'योगाद्यच्च । ५ । १ । १०२ । ।। २२ ।। क्रुध्यन् कुलं धक्ष्यति विप्रवहिर्यास्यन् सुतस्तप्स्यति मां समन्युम् । इत्थं नृपः पूर्वमवालुलोचे ततोऽनुजज्ञे गमनं सुतस्यै ॥ २३ ॥ क्रुध्यन्नित्यादि–यद्यहं भूतरक्षणेऽधिकृतोऽस्य वचनं न कुर्यो तदा क्रुव्य- न्सन् । दिवादित्वात् श्यन् । विप्रो वह्निरिव । 'उपमितं व्याघ्रादिभिः सामान्याप्रयोगे २|१|५६ | इति समासः | धक्ष्यति कुलं भस्मसात्करिष्यति । दहेर्लट् 'दादेः-८|२|३२|' इति घः | भषमावः । चर्ध्वम् । वकारस्य ककारः । ‘इएकोः |८|३|५७|' इति षत्वम् यास्यन्गमिष्यन्सुतो मां समन्युं सशोकं तस्यति सन्तापयिष्यति । तपेट् ॥ इत्थमेवप्रकारं नृपः पूर्वमादाववालु- लोचेऽवलोचितवान् । अवाङ्पूर्वाल्लोचेलिट् तत उत्तरकालं सुतस्य गमन- मनुजज्ञे । अनुज्ञातं नृपेणेति विभक्तिविपेरिणामेन तेनेति योज्यम् । कर्मणि लिट् । 'ज्ञा अवबोधने' इति परस्मैपदित्वात् । नचानुपूर्वादस्मादात्मनेपदं विहितम् ॥ २३ ॥ आँशीभिरभ्यर्च्य मुनिः क्षितीन्द्रं प्रीतः प्रतस्थे पुनराश्रमाय || तं पृष्ठतः प्रष्ठमियाय नम्रो हिंस्त्रेषुदीप्ताऽऽप्तधनुः कुमारः ॥ २४ ॥ १ कुलदाहापेक्षया वियोगतापस्याल्पकष्टदत्वात् । २ रामस्य | लक्ष्मणस्य तु गमनं तद्गमन । अत एव 'सह लक्ष्मणेन' इति निर्दिशता मुनिना तद्गमना- प्रधान्यं प्रथमत एव सूचितम् । न हि लक्ष्मणो रामेण वियुज्य स्थातुं क्षमत इति निश्चयश्चात्र हेतुः । अत एवं तं ' पृष्ठतः' इत्यादि च वक्ष्यति । ३ अन्न बहुवचनं सर्वाभिलपितपूति सूचयति। ४ प्रार्थनाभावेऽपि तथाऽऽशिपां प्रयोग एवाभ्यर्च- नम् एतेन सुतगमनानुज्ञानस्य सद्यो महाफलत्वं सूचितम् ।