पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रकीर्णकाण्डम् । ( १५ ) ‘वृन्दारकनागकुञ्जरैः पूज्यमानम् |२|१|६२|| इति समासः तेन ( तादृशेन क्षितिपो राजा । शुभंयुः कल्याणवान् । पूर्ववद्युस् । वचो वक्ष्यमाणमूचे उक्त : कर्मणि लिट् सम्प्रसारणम् । “अहंयुनाथ : " इति विसर्गान्तं पाठान्तरम् । तत्र 'अहं यूनां क्षत्रियाणां नाथ इति योज्यम् ॥ २० ॥ मया त्वमाप्याः शरणं भयेषु वयं त्वयाऽप्याप्स्महि धर्मवृद्धयै । क्षा द्विजत्वं च परस्पराऽर्थ शङ्कांकृथा मा प्रहिणु स्वसूनुम् ॥ २१ ॥ मयेत्यादि — भयेषु त्वं शरणम् आप्था: प्राप्तोऽसि मया । आपेः कर्मणि लुङ् । सिज्लोपः । त्वयापि धर्मवृद्ध्यै धर्मोपचयाय वयमाप्स्महि प्राप्ताः । पूर्ववल्लुङादि । उत्तमबहुवचनम् । सिचो लोपाभावः । मकारस्याझत्वात् तदित्थं क्षात्रं द्विजत्वं च धर्मवृद्धये परस्परार्थम् अन्योन्यप्रयोजनम् । 'कर्मव्यति- हारे सर्वनाम्रो द्वे भवतः 'समासवच्च बहुलम्' इति यदा न समासवत् तदायम् । तस्मान्मा शङ्कां कृथाः माकार्षीः । कथमस्मिन् संकटे पुत्रं नियोज- यामीति | 'माङि लुङ् |३|३|१७५१ अडभावः । 'उश्च |१|२|१२' इति कित्त्वाद्गुणाभावः । 'हस्वादङ्गात् ||२|२७|' इति सिचो लोपः प्रहिणु प्रेषय । स्वं पुत्रम् । हिनोतेः प्रार्थनायां लोट् । अनुः । अपित्त्वात् ङित्त्वम् । गुणाभावः । ‘उतश्च प्रत्ययात् । ६ । ४ । १०४ ।' इति हेर्लुक् ‘हिनुमीना । ८ । ४ । १५ ।' इति णत्वम् ॥ २१ ॥ धानिष्यते तेन महान् विपक्षः स्थायिष्यते येन रणे पुरस्तात् । मामां महात्मन् पारंभयोग्ये न मद्विधो न्यस्यति भारमव्यम् ॥ २२ ॥ घानीत्यादि -- अनागतमर्थ ज्ञानेन समीक्ष्याह - महान्विपक्षो रावणः त्रैलो- क्यविजयित्वात् । सोऽपि तेन रामेण घानिष्यते किमुतेतरे राक्षसाः । हन्तेः कर्मणि लट् । ‘स्हसिच्सीयुट्तासिषु भावकर्म्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदि च |६|४||६२ |' इति चिण्वदि उपधावृद्धिः । 'हो हन्तेः-७।३।५४।' इति कुत्वम् । पुरस्तादग्रतो यद्रणं युद्धं भावि परशुरामेण सार्धमिति भावः । । 6 १ अत एव 'स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः । ' ' इति सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थगोचराः ।' इति चामरः सङ्गच्छते । २ एतेन स्वाभाविकमहङ्कारित्वं सूचितम् । ३ अत एव भगवताऽपि गीतायाम् परस्परम्भावयन्तः श्रेयः परमवाप्स्यथ ।' इत्युपदिष्टम् । ४ एवमस्थाने सशोकेन न त्वया भवितव्यमिति सूचयितुम् महाऽऽत्मन् इत्युक्तम् । न हि महात्मानः सहसा तथा क्षुभ्यन्तीति भावः ।