(१४) भट्टिकाव्ये जयमङ्गलासमेते- [ आद्यः इलन्तस्याचः । ७।२।३ ।' इति वृद्धिः । “ध्यै चिन्तायाम्' भावे ध्यानम् ॥ १८ ॥ ल्युट् । आख्यन् मुनिस्तस्य शिवं समाधेर्विघ्नन्ति रक्षांसि बने क्रतूंश्च । तानि द्विषवयिनिराकरिष्णुस्तृणेढु रामः सह लक्ष्मणेनं ॥ १९ ॥ M 6 आख्यदित्यादि -- पृष्टो मुनिस्तस्य समाधैर्ध्यानस्य शिवमनुपद्रवमाख्यत् कथितवान् । ‘ चक्षिङः ख्याञ् । २ । ४ । ५४ । ' 'अस्यतिवक्तिख्यातिभ्यो- ऽङ् ३ । १ । ५२ ।' इति च्लेरङ् । आतो लोपः । किन्त्वयं दोषः - विघ्नन्ति रक्षांसि वेन क्रतून । ‘गमहनजनखनघसां लोपः क्ङित्यनङि । ६ । ४ । ९८१ इत्युपधालोपः । हो हन्तेगिन्नेषु ।७।३।५४ |' इति कुत्वम् । किं क्रियता- मिति चेदाह-तानि रक्षांसि | द्विषतां वीर्ये सामर्थ्यम् | वीरेः स्वार्थिकण्यन्तात् “ अचो यत् । ३ । १ । ९७ । ' इति यत् । तस्य निराकरिष्णुः निराकरण- शीलः • अलंकृञनिराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर इष्णुच् । ३ । २ । १३६ ।। इतीष्णुच् तृणेढु हिनस्तु | गृहेर्विधौ लोट | “एरुः | ३|४|८६ | रुधादित्वात् श्नम् । तृणह इम् । ७ । ३ । ९२ ।' होढः । ८। २ ! ३१ । ' 'दुत्वम् । 'ढो ढे लोपः । ८ । ३ । १३ । ' इति ढलोप: । •सह लक्ष्मणेन लक्ष्मणेन सह ॥ १९ ॥ 1 6 स शुश्रुवांस्तद्वचनं भुमोह राजाऽसहिष्णुः सुतविप्रयोगम् । अहंयुनाऽथ क्षितिपः शुभंगुरूचे वचस्तापसकुञ्जरेण ॥ २० ॥ स इत्यादि - - स राजा तस्य मुनेस्तद्वचनं शुश्रुवान् श्रुतवान् सन् सुतवित्र- यागमसहिष्णुरसहनशीलो मुमोह मोहमुपगतः । शृणोते: 'भाषायां सदवस- श्रुवः |३|२|१०८।' इत्यनेन वसुः । सुतेन विप्रयोगमिति 'कर्तृकरणे कृता बहुलम् |२|१|३२|' इति समासः । 'न लोकाव्ययनिष्ठा- | २|३|६९' इति षष्टयाः प्रतिषेधः । अथानन्तरम् । अहंयुना अहंकारवता | 'अहंशुभमोर्य॒स् १५/२/१४०।' इति र्युस् । तापसकुञ्जरेण 'तपःसहस्राभ्यां विनीनी |५|२|१०२। इयनुवर्तमाने 'अण् च ४ | २ | १०३ |' इति मत्वर्थेऽण् । तापस्रश्च स कुञ्जरश्चेति । १ लक्ष्मणेन सह रामस्तृणेढु इत्याख्या, इत्याख्यादिव्यन्वयः इत्यध्याहार्यम् | २ 'तद्वचनश्रवणमात्रेण मूर्छित आसीदित्यत्र हेतुः सुतनिप्रयोगसहिष्णुत्वमिति परि करोऽत्रालङ्कारः ।
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५२
दिखावट