पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्ग:] प्रकीर्णकाण्डम् । (१३) ततोऽभ्यगाद् गाधिसुतः क्षितीन्द्रं रक्षोभिरभ्याहतकर्मवृत्तिः । रामं वरतुं परिरक्षणार्थी राजाऽऽजिहत् तम्मधुपर्कपाणिः ॥ १७ ॥ तत इत्यादि — तेषु रामादिषु तथाभूतेषु । गांधिसुतो विश्वामित्रः । क्षि तीन्द्रं राजानमभ्यगात् अभिगतवान् । इणो गादेशः । गातिस्थाघुपाभूभ्यः २ । ४ । ७७ ।' इति सिचो लुक् । रक्षोभिर्निशाचरैरभ्याहताभिभूता यागादेः कर्मणो वृत्तिः प्रवृत्तिर्यस्येति । रामं वरीतुं प्रार्थयितुम् । 'वृतो वा । ७ । २ । ३८ । ' इति इटो दीर्घत्वम् । परिरक्षणार्थं विहन्यमानस्य कर्मण इत्यर्थः । तंगाधिसुतम् । आर्जिहत् पूजितवान् । ' अर्ह पूजायाम्' । इति स्वार्थिकण्य- न्तचौरादिको गृह्यते, न तु भौवादिकः । तस्माद्धेतुमण्यिचात्र न भवितव्यम् । ‘णिश्रिद्रुस्रुभ्यः कर्त्तरि चङ् । ३ । १ । ४८ । इति चङ् णिलोपः । द्विर्वच- नेऽचि । १ । १ ।५९ । ' इति स्थानिवद्भावात् । 'अजादेर्द्वितीयस्य | ६ ।१। .२ ।” इति हिशव्दो द्विरुच्यते । रेफस्य न 'नन्द्राः संयोगादयः । ६ । १।३।१ इति प्रतिषेधः । चुत्वम् । आट् | वृद्धिः मधुपर्कपाणि: । द्धिघृतमधून्येकी- कृतांनि मधुपर्क इत्युच्यते । तस्मिन् पात्रे स्थितः पाणिर्यस्येति विग्रहः । 'सप्तम्युपमानपूर्वपदस्योत्तरलोपः' इत्युत्तरपदलोपी समासः । पात्रादुद्धृत्य मधुप- केंण पूजितवानित्यर्थ: ।। १७ ।। ऐषी: पुनर्जन्मजयाय यत् त्वं, रूपाऽऽदिबोधान् न्यवृत्तच्च यत् ते । तत्त्वान्यबुद्धाः प्रतनूनि येन ध्यानं नृपस्तच्छिवमित्यवादीत् ॥ १८ ॥ ऐषीरित्यादि - मुक्तिस्तत्त्वावबोधस्तस्या ध्यानं प्रयोजनं तत्र पुनर्जन्म भूयोजन्म तस्य जयाय यद्धयानं त्वमैषीः एषितवानसि । इषेर्लुङ् | मध्यमैक- वचने 'इट ईटि । ८ २ । २८ । ' इति सिचो लोपे रूपम् । रूपादिबोधा- न्न्यवृतच्च । यत्ते–रूपादिषु शब्दस्पर्शरूपरसगन्धेषु चक्षुरादिद्वारेण यो बोधोऽ- ध्यवसायलक्षणा बुद्धिः तस्माच्च यद्धवानं न्यवृतत् निवृत्तम् । वृत्तेर्हुतादित्वात् ‘द्युद्भयो लुाङ । १ । ३ । ९१ ।' इति तिप् । च्लेरङ् । तत्त्वानि पञ्चविंशतिः पुरु- पप्रधानमहदहङ्कारादीनि । प्रतनूनि सूक्ष्माणि येन ध्यानेनाबुद्धा: ज्ञातवा नारी । बुधेरनुदात्तेतो लुङ् । थास: सिच् 'लिसिचावात्मनेपदेषु । १ । २ । ११ ।' इति सिचः कित्त्वाद्गुणाभावः । सिलोपधत्वजश्त्वादि । तद्ध्या शिवं शोभनं कच्चिदिति नृपोऽवादीत् । न तस्य व्याघात इति 'वदत्रज- 6 १ गाधे: तदाख्यस्य राजर्षेः सुतः । ' अस्यैव गाधयेत्यपि अन्वर्था संज्ञा । "अथ गाधेयो विश्वामित्रश्च कौशिकः ।' इत्यभिधानात् । २ कांस्यपात्रपिहितानीति शेषः ।