सामग्री पर जाएँ

पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] तिङ्काण्डम् | ( ५२५) इदमित्यादि - इदं महाकाव्यम् । उक्तवचनस्य यो मार्गः पन्थाः सुसंस्कृत- शब्दलक्षणः प्रपञ्चितः तेन चित्रं विस्मयनीयम् । सुसमाहितम् अलङ्कारयुक्तम् । अधिगतं परिज्ञातं सज्जनानां विवाषतां वक्तुमिच्छतां वदतां च वक्तुं प्रवर्तमा- नानां सदा विजयं जनयति । सन्निबन्धात् शोभनबन्धात्कारणात् । यथास्त्रमै.. श्वरं पाशुपतम् । अधिगतमुक्तिमार्गम् अधिगतः प्राप्तः प्रज्ञातो मोचनमार्ग: क्षेपणमार्गो येन । चित्रं नानावर्णकेन चित्रितत्वात् । सुसमाहितं युधि संग्रामे विजयं विदधाति तद्वत् ॥ ३२ ॥ तस्मादादरः कर्तव्य इति तत्रापि य एव व्याकरणमधीतवान् तस्यैवात्रादरो युक्त इति दर्शयन्नाह - दीपतुल्यः प्रबन्धोऽयं शब्दलक्षणचक्षुषाम् । हस्तामर्ष इवान्धानां भवेद्वयाकरणाहते ॥ ३३ ॥ - दीपतुल्य इत्यादि - अयं प्रबन्धो महाकाव्यसंज्ञक: । प्रबध्यते विरच्यत इति कृत्वा । शब्दलक्षणमेव चक्षुर्येषां तेषां दीपतुल्यः । अत एवैतत्काव्याधि- गमात् स्वातन्त्र्येणान्यानपि शब्दान् प्रयोक्तुं क्षमत्वात् । व्याकरणादृते विना हस्तामर्ष इवान्धानां हस्तामर्ष इवावबोधः यथा अन्धानां हस्तेन घटपटादिवत् । स्वपरामृश्यसंस्थानमात्रपरिज्ञानम् यथावस्थितस्वरूपपरिज्ञान मेवमनर्धातिव्याकर- णानां न शब्दस्वरूपपरिज्ञानं अन्यत्र शब्दश्रवणात् ततश्च तत्स्वरूपापरिज्ञानात् कुतोऽप्यन्यशब्दप्रयोग इति ॥ ३३ ॥ व्याख्यागम्यमिदं काव्य मुत्सवः सुधियामलम् । हता दुर्मेधसश्चास्मिन् विद्वत्मियतया मया ॥ ३४ ॥ एवं च कृत्वा विदुषोऽनुरुध्यमानेन मयेदं काव्यं कृतमिति दर्शयन्नाह - व्याख्यागम्यमित्यादि- - व्याख्यागम्यं व्याख्यानाद्विना बोद्धुं न शक्यते । किमर्थमीदृशं कृतमिति चेत् उत्सवः सुधियामलं शास्त्रे क्षुण्णबुद्धीनां परं प्रमोदो जायते । एवं च सत्यस्मिन् काव्ये विषयभूतदुर्मेधसो व्याकरणबाह्याः मया हता नानुगृहीताः । तस्माद्विद्वत्प्रियतया विद्वांसः प्रिया यस्य मम विद्वत्प्रियः तद्भाव- स्तत्ता तया हेतुभूतयेति ॥ ३४ ॥ १. अत्र पुष्पिताम्रा छन्दः 'गान्तं पुष्पिताग्रा' इति छन्दोऽनुशासनोक्तेः । 'अपरव मेवौजनुजोर्गान्तं पुष्पिताम्रा/’इति तदर्थः । अपरवक्रं व नारत्गनिजत्रा अपरवक्रम्। इति