पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(५२४ ) भट्टिकाव्ये जयमङ्गलासमेते- [ द्वाविंशः - सह मातृभिः हनूमता च सह । अयं नम्रः अनुद्धतः " समीपं मे नाथ आगतः' इति तूर्याणां निःस्त्रनेन सकलं लोकं मार्गप्राप्तं समापूरयन् व्याप्नुवन् करिणां च गिरीन्द्रसदृशाम् । ‘त्यदादिषु दृशोऽनालोचने कञ्च | ३ ।२।६०।' । वितैःपादन्यासैः क्ष्मां कम्पयन् सर्वतो विधूनयन् 'क्ष्मापयन्' इति पाठान्तरम् । तत्र 'अर्तिही लीरीक्नूयीक्ष्माय्यातां पुग्ण १७।३ । ३६ ।" इति पुकू । सम्प्राप्तः रामसमीपमित्यर्थः ।। २९ ।। अथ ससम्भ्रमपौरजनावृतो भरतपाणिवृतोज्ज्वलचामरः । गुरुजनद्विजवन्द्यभिनन्दितः प्रविशति स्म पुरं रघुनन्दनः ॥ ३० ॥ अथेत्यादि--अथ भरतसम्प्राप्त्यनन्तरं रघुनन्दनो रामः ससम्भ्रमेण साद- रेण सहर्षेण पौरजनेनावृतः । भरतपाणिना धृतमुज्ज्वलं चामरं यस्य । गुरुजनेन द्विजैर्बन्दिभिश्च स्तुतिपाठकैरभिनन्दितोऽभिष्टुतः सन् पुरमयोध्यां प्रविशति स्म प्रविष्टेः ॥ ३० ॥ प्रविधाय वृति परां जनानां युवराजं भरतं ततोऽभिषिच्य | घटेरगावरण यष्कृतसम्भारविधिः पतिः प्रजानाम् ॥ ३१ ॥ प्रविधायेत्यादि - - प्रविश्य च पुरं प्रजानां पती रामः जनानां धृतिं प्रीति- रूपचेतोवत्तिं परामुत्कृष्टां प्रविधाय कृत्वा भरतं च युवराजमभिषिच्य ततोऽन- न्तरम् तुरगाध्वरेणाश्वमेधेन यष्टुं जघटे चेष्टितवान् | कृतसम्भारविधिः संभ्रियत इति सम्भारः द्रव्यगण इत्यर्थः । कृतोऽनुष्ठितः सम्भारस्य विधिरत कर्तव्यतालक्षणो येन स इति ॥ ३१ ॥ नायकाभ्युदयान्तं महाकाव्यमिति परिसमापय्य तत्र जयमिच्छता अस्मि- न्नादरः कर्तव्य इति दर्शयन्नाह -- इदमधिगतमुक्तिमार्गचित्रं विवदिषतां वदतां च सन्निबन्धात् । जनयति विजयं सदा जनानां युधि सुसमाहितमैश्वरं यथास्त्रम् ३२ १ अत्र शार्दूलविक्रीडितं वृत्तम्, तल्लक्षण चोकं प्राकू । २ अत्र द्रुतवि- लम्बतं वृत्तम्, 'द्रुतबिलम्बितमाह नभौ भरौ ॥' इत्युक्तेः । ३ अत्रौपच्छन्दसिकं वृत्तम् ‘र्यान्ता औपच्छन्दसिकम्' इति च्छन्दोऽनुशासनोक्तेः, 'ओजे षण्मात्रायुज्यष्टौ शान्ताश्चेत् अवशिष्टं वैतालीयवत्तौपच्छन्दसिकम्' इति च्छन्दोऽनुशासिका रगणयग- 1 CD