पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] तिङ्काण्डम् | (५२३ ) शिआनेत्यादि — सुतनु ! एते वनान्ताः पुर्या दृश्यन्ते शिजानैः क्रूजद्भिः भ्रमरकुलै: आकुलाग्राणि पुष्पाणि येषां वनान्तानाम् । प्रविलीयतेऽस्मिन्निति प्रविलयः । ‘एरच् |३|३|५६|' इत्यच् । 'निमिमीलियां खलचोरात्त्वं नेति वाच्यम् ।' इति वार्तिकेन 'विभाषा लीयतेः |६|१|५१|' इत्यात्वं न भवति । शीताम्भसः प्रविलयः कुल्या तेन यः संप्लवः स्नापना तेनाभिलीनाः कुल्यया सिच्यमानमूलत्वात् । अत एव नयनमनोरमाः रमयतीतिः कर्तर्यच् । पश्चात् षष्ठीसमासः । एवं च पुरीजनानामयोध्यानिवा- सिनाम् उपभोग्याः ॥ २७ ॥ स्थानं नः पूर्वजानामियमधिकमसौ प्रेयसी पूरयोध्या दूरादालोक्यते या हुतविविधहविःप्रीणिताऽशेषदेवा ॥ सोऽयं देशो रुदन्तं पुरजनमखिलं यत्र हित्वा प्रयाता आवां सीते वनान्तं सह धृतधृतिना लक्ष्मणेन क्षपान्ते ॥ २८ ॥ स्थानं न इत्यादि - - हे सीते ! असौ पुरी नोऽस्माकं पूर्वजानां स्थानम-- धिकम् अयोध्या पू: अतएव च प्रेयसी प्रियतमा । दूरादालोक्यते उच्चप्रासादयोगात् । या हुतैर्विविधैर्ह विभिराज्यादिभिः प्रीणिताशेषदेवा । यत्र देशे पुरजनमखिलं समस्तं रुदन्तं क्षपान्ते उपसि हित्वा त्यक्त्वा छन आवां वनान्तं प्रयातौ सोऽयं देश: सह लक्ष्मणेन वृतधृतिना धृतसौमनस्येनं ।। २८ ।। तूर्याणामथ निःस्वनेन सकलं लोकं समापूरयन विक्रान्तैः करिणां गिरीन्द्रसदृशां क्ष्मां कम्पयन् सर्वतः । सानन्दा श्रुविलोचनः प्रकृतिभिः सार्धं सहान्तःपुरः सम्प्राप्तो भरतः समारुतिरलं नम्रः समं मातृभिः ॥ २९ ॥ तूर्याणामित्यादि -- अथानन्तरः भरतो हनूमतः समुपलब्धरामवृत्तान्तत्वात् सानन्दा श्रुविलोचनः सानन्दाश्रुणी विलोचने यस्य तथाभूतः प्रकृतिभिः अमा- त्यादिभिः सार्धम् । सहान्तःपुरः अन्तःपुरेण समम् । मातृभिः कौसल्यादिभिः १ अत्र खग्धरा वृत्तम् ‘ब्रम्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्' इतिवृत्त्वाकरोक्तेः ।